अध्यायः 006

उत्तमसभालाभगर्वितेन युधिष्ठिरेण सभाविषयकप्रश्ने नारदस्य इन्द्रादिसभावर्णन प्रतिज्ञानम् ॥ 1 ॥

वैशम्पायन उवाच 001
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् । 001a
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥ 001c
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् । 002a
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥ 002c
राजभिर्यद्यथा कार्यं पुरा वै तन्न संशयः । 003a
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥ 003c
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो । 004a
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥ 004c
वैशम्पायन उवाच 005
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च । 005a
' तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्' । 005c
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥ 005e
नारदं सुस्थमासीनमुपासीनो युधिष्ठिरः । 006a
अपृच्छत्पाण्डवस्तत्र राजमध्ये महाद्युतिः ॥ 006c
भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् । 007a
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः । 007c
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित् । 008a
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥ 008c
वैशम्पायन उवाच 009
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् । 009a
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥ 009c
नारद उवाच 010
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता । 010a
सभा मणिमयी राजन्यथेयं तव भारत ॥ 010c
सभां तु पितृराजस्य वरुणस्य च धीमतः । 011a
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥ 011c
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् । 012a
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम् ॥ 012c
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः । 013a
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः । 013c
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥ 013e
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः । 014a
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः ॥ 014c
नारदं प्रत्युवाचेदं धर्मराजो महामनाः । 015a
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥ 015c
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः । 016a
पितामहं च के तस्यां सभायां पर्युपासते ॥ 016c
वासवं देवराजं च यमं वैवस्वतं च के । 017a
वरुणं च कुबेरं च सभायां पर्युपासते ॥ 017c
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव । 018a
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥ 018c
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत । 019a
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥ 019c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि षष्ठोऽध्यायः ॥ 6 ॥ 2-6-11 कैलासनिलयस्य कुबेरस्य ॥