अध्यायः 005 तत्रागतेन युधिष्ठिरपूजितेन नारदेन कुशलप्रश्नव्याजेन राजनीतिकथनम् ॥ 1 ॥
001 वैशम्पायन उवाच
001a अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
001c महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥
002a वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः ।
002c इतिहासपुराणज्ञः क्रियाकल्पविशेषवित् ॥
003a 'स्तुतस्तोमग्रहस्तोभपदक्रमविभागवित् ।
003c शिक्षाक्षरविभागज्ञः पुराकल्पविशेषवित् ॥
004a आदिकल्पार्थवेत्ता च कल्पसूत्रार्थतत्त्ववित् ।
004c ब्रह्मचर्यव्रतपर ऊहापोहविशारदः ॥
005a नृत्तगान्धर्वसेवी च सर्वत्राप्रतिमस्तथा ।
005c अष्टादशानां विद्यानां कोशभूतो महाद्युतिः' ॥
006a न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।
006c ऐक्यसंयोगनानात्वसमवायविशारदः ॥
007a वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः ।
007c परापरविभागज्ञः प्रमाणकृतनिश्चयः ॥
008a पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ।
008c उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः ॥
009a धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः ।
009c तथा भुवनकोशस्य सर्वस्यास्य महामतिः ॥
010a प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा ।
010c साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान् ॥
011a सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् ।
011c षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥
012a युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा ।
012c एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः ॥
013a लोकाननुचरन्सर्वानागमत्तां सभां नृप ।
013c नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥
014a पारिजातेन राजेन्द्र पर्वतेन च धीमता ।
014c सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥
015a सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ।
015c जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत् ॥
016a तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।
016c सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ॥
017a अभ्यवादयत प्रीत्या विनयावनतस्तदा ।
017c तदर्हमासनं तस्मै सम्प्रदाय यथाविधि ॥
018a गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च ।
018c अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥
019a तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात् ।
019c सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः ।
019e धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥
020 नारद उवाच
020a कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।
020c सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥
021a कच्चिदाचरितां पूर्वैर्नरदेवपितामहैः ।
021c वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु ॥
022a कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा ।
022c उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥
023a कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
023c विभज्य काले कालज्ञः सदा वरद सेवसे ॥
024a कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ ।
024c बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥
025a कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर ।
025c तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ॥
026a कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ ।
026c आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः ॥
027a कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः ।
027c त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा ॥
028a मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम् ।
028c कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे ॥
029a कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे ।
029c कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः ॥
030a कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः ।
030c विजयो मन्त्रमूलो हि राज्ञो भवति भारत ॥
031a कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः ।
031c राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते ॥
032a कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे ।
032c कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥
033a कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
033c कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति ॥
034a कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।
034c क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥
035a कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः ।
035c सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् ॥
036a आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः ।
036c कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ॥
037a विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ।
037c कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः ।
037e कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥
038a कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।
038c पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निः श्रेयसं परम् ॥
039a कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः ।
039c यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥
040a एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
040c राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
041a कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
041c त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥
042a कच्चिद्द्विषामविदितः प्रतिपन्नश्च सर्वदा ।
042c नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥
043a कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
043c अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥
044a कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
044c हुतं च होष्यमाणं च काले वेदयते सदा ॥
कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः । 045a
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ 045c
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । 046a
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ 046c
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । 047a
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 047c
कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः । 048a
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ 048c
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । 049a
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 049c
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः । 050a
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा । 050c
कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः । 051a
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 051c
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । 052a
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि ॥ 052c
कालातिक्रमणादेते भक्तवेतनयोर्भृताः । 053a
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥ 053c
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । 054a
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ॥ 054c
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् । 055a
अनुशास्ति यथाकामं कामात्मा शासनातिगः ॥ 055c
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् । 056a
लभते मानमधिकं भूयो वा भक्तवेतनम् ॥ 056c
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् । 057a
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे ॥ 057c
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम् । 058a
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ 058c
कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम् । 059a
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥ 059c
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते । 060a
समश्चानभिशङ्क्यश्च यथा माता यथा पिता ॥ 060c
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ । 061a
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ 061c
यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम । 062a
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् ॥ 062c
बलस्य च महाराज दत्त्वा वेतनमग्रतः । 063a
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप । 063c
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ 063e
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः । 064a
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥ 064c
कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः । 065a
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥ 065c
कच्चिन्मूलं दृढं कृत्वा परान्यासि विशाम्पते । 066a
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥ 066c
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः । 067a
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी ॥ 067c
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप । 068a
अविहाय महाराज निहंसि समरे रिपून् ॥ 068c
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव । 069a
अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम् ॥ 069c
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च । 070a
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥ 070c
कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम् । 071a
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥ 071c
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते । 072a
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥ 072c
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च । 073a
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥ 073c
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः । 074a
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव ॥ 074c
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् । 075a
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥ 075c
कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः । 076a
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव ॥ 076c
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् । 077a
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥ 077c
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् । 078a
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ 078c
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते । 079a
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ 079c
कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा । 080a
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः॥ 080c
कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च । 081a
भागशो विनिविष्टानि न कृषिर्देवमातृका ॥ 081c
कच्चिन्न भक्तं बीजं च कर्षकस्यावसीदति । 082a
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥ 082c
कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः । 083a
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ 083c
कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः । 084a
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥ 084c
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः । 085a
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः ॥ 085c
कच्चिद्बलेनानुगताः समानि विषमाणि च । 086a
पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव ॥ 086c
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । 087a
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ 087c
कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च । 088a
प्रियाण्यनुभवञ्शेषे न त्वमन्तः पुरे नृप ॥ 088c
कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते । 089a
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ 089c
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतः । 090a
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः ॥ 090c
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः । 091a
उपासते त्वामभितो रक्षणार्थमरिन्दम ॥ 091c
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते । 092a
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥ 092c
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा । 093a
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ 093c
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः । 094a
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ 094c
कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते । 095a
अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथञ्चन ॥ 095c
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा । 096a
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि वै ॥ 096c
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः । 097a
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ॥ 097c
कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः । 098a
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन ॥ 098c
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः । 099a
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ॥ 099c
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते । 100a
ब्राह्मणानां च साधूनां तव नैःश्रेयसी शुभा । 100c
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ॥ 100e
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः । 101a
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥ 101c
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः । 102a
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ 102c
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः । 103a
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥ 103c
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि । 104a
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥ 104c
कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ । 105a
अपि मङ्गलहस्तश्च जनः पार्श्वे न तिष्ठति ॥ 105c
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ । 106a
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ 106c
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति । 107a
विजित्य च महीं राजा सोत्यन्तं सुखमेधते ॥ 107c
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि । 108a
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 108c
दुष्टो गृहीतस्तत्कारितज्ज्ञैर्दृष्टः सकारणः । 109a
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ 109c
उत्पन्नानकच्चिदाढ्यस्य दरिद्रस्य च भारत । 110a
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ 110c
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । 111a
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् । 111c
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् ॥ 111e
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् । 112a
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ॥ 112c
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश । 113a
प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवः ॥ 113c
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् । 114a
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 114c
युधिष्ठिर उवाच 115
कथं वै सफला वेदाः कथं वै सफलं धनम् । 115a
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥ 115c
नारद उवाच 116
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । 116a
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ 116c
वैशम्पायन उवाच 117
एतदाख्याय स मुनिर्नारदो वै महातपाः । 117a
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥ 117c
नारद उवाच 118
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् । 118a
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ 118c
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः । 119a
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः ॥ 119c
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः । 120a
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम् ॥ 120c
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च । 121a
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी ॥ 121c
द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम् । 122a
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ॥ 122c
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि । 123a
सतां मध्ये महाराज सत्करोषि च पूजयन् ॥ 123c
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ । 124a
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो ॥ 124c
कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ । 125a
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम् ॥ 125c
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ । 126a
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः ॥ 126c
कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा । 127a
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥ 127c
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् । 128a
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥ 128c
षडनर्था महाराज कच्चित्ते पृष्ठतः कृताः । 129a
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता ॥ 129c
वैशम्पायन उवाच 130
ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य । 130a
प्रणम्य पादावभिवाद्य तुष्टो राजाऽब्रवीन्नारदं देवरूपम् ॥ 130c
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा । 131a
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च ॥ 131c
नारद उवाच 132
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे । 132a
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम् ॥ ॥ 132c
इति श्रीमन्महाभारते सभापर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ 2-5-24 षड्गुणाः सन्धिविग्रहादयः । सप्तोपायाः मन्त्रौषधेन्द्रजालसहिताः सामादयः । स्वपरपक्षबलाबलसहिता एतएव चतुर्दश ॥ 2-5-25 अष्टौ कर्माणि- कृषिर्वणिक्पथो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरकरादानं शून्यानां च निवेशनमित्युक्तानि ॥ 2-5-26 सप्तप्रकृतयः स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलाख्याः ॥ 2-5-27 कच्चिन्न तर्कैर्दूतैर्वा इति ख-पाठः ॥ 2-5-28 शुचयो जीवितक्षमाः इति ख-पाठः ॥ 2-5-35 कर्मान्ताः कृष्यादयः ॥ 2-5-37 कारणिकाः युद्धोपकरणयुक्ताः ॥ 2-5-41 मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः । पञ्चमो द्वारपालश्च षष्ठोऽन्तर्वेशिकस्तथा 1, कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा । कृत्याकृत्येषु चार्थानां नवमो विनियोजकः 2, प्रेदेष्टा नगराध्यक्षः कार्यानिर्माणकृत्तथा । धर्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः 3, षोडशो दुर्गपालश्च तथा राष्ट्रान्त पालकः। अटवीपालकान्तानि तीर्थान्यष्टादशैव तु 4, चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि 5, मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितमिति ॥ 2-5-67 अष्टाङ्गसंयुक्ता-रथा नागा हया योधाः पत्तयः कर्मकारकाः । चारा दैशिकमुख्याश्च ध्वजिन्यष्टाङ्गिका मता । चतुर्विधबला मौलमैत्रमृत्याटविकैर्बलैर्युक्ता । बलमुख्यैः सेनापतिभिः प्रतिवर्धिनी प्रातिकूल्येन च्छेदिनी ॥ 2-5-68 लवः सस्यच्छेदनकालः । मुष्टिः सस्यानां गोपनकालः ॥ 2-5-71 कोष्ठं धान्यस्थानम् ॥ 2-5-73 कच्चिन्नेति पानादिव्यसनजं व्ययं तव पूर्वाह्णे धर्माचरणकाले भृत्या न प्रतिजानन्ति नावेदयन्ति ॥ 2-5-76 अनुतिष्ठन्ति निवेदयन्ति ॥ 2-5-79 अप्राप्तव्यवहारा अप्रौढाः ॥ 2-5-84 प्रतिग्रामं पञ्चपञ्चेति । तेच-प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी चे ति ॥ 2-5-88 आत्ययिकमकल्याणम् ॥ 2-5-93 आबाधं दुःखम् । नियमेन पथ्याशनादिना ॥ 2-5-94 निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा । सम्प्राप्तिरौषधी रोगी परिचारक एवञ्चेत्यष्टाङ्गानि ॥ 2-5-102 तवाध्यक्षं त्वत्समक्षम् ॥ 2-5-108 क्षारितः मिथ्यापवादैः पातितः ॥ 2-5-113 कृतमूलाः अपीति छेदः ॥ 2-5-126 ब्रह्मदण्डः अभिचारः ॥