अध्यायः 003
सभानिर्माणसामग्र्यानयनाय बिन्दुसरः प्रति मयस्य गमनम् ॥ 1 ॥ गदाशङ्खाभ्यां सह सामग्रीं गृहीत्वा मयस्य खाण्डवप्रस्थागमनम् ॥ 2 ॥ भीमार्जुनयोः गदाशङ्खदानं सभानिर्माणं च ॥ 3 ॥
वैशम्पायन उवाच 001
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् । 001a
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम् ॥ 001c
'विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव । 002a
प्राणिनां विस्मयकरीं तव प्रियविवर्धिनीम् । 002c
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय' ॥ 002e
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति । 003a
यियक्षमाणेषु पुरा दानवेषु मया कृतम् ॥ 003c
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति । 004a
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः ॥ 004c
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत । 005a
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् ॥ 005c
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् । 006a
अस्ति बिन्दुसरस्युग्रा गदा च कुरुनन्दन ॥ 006c
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् । 007a
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥ 007c
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी । 008a
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥ 008c
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् । 009a
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥ 009c
वैशम्पायन उवाच 010
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः । 010a
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति ॥ 010c
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः । 011a
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 011c
द्रष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः । 012a
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना ॥ 012c
आहृताः क्रतवो मुख्याः शतं भरतसत्तम । 013a
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥ 013c
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः । 014a
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः ॥ 014c
यत्र भूतपतिः सृष्ट्वा सर्वाँल्लोकान्सनातनः । 015a
अपस्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः ॥ 015c
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः । 016a
उपासते यत्र परं सहस्रयुगपर्यये ॥ 016c
यत्रेष्टं वासुदेवेन सत्त्रैर्वर्षगणान्बहून् । 017a
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये ॥ 017c
सुवर्णमालिनो यूपाश्चैत्याश्चाप्यतिभास्वराः । 018a
ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥ 018c
तत्र गत्वा स जग्राह गदां शङ्खं च भारत । 019a
'तस्माद्गिरेरुपादाय शिलाः सुरुचिरावहाः' । 019c
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥ 019e
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम् । 020a
तदगृह्णान्मयस्तत्र गत्वा सर्वं महाऽसुरः ॥ 020c
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम् । 021a
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥ 021c
गदां च भीमसेनाय प्रवरां प्रददौ तदा । 022a
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम् ॥ 022c
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे । 023a
'स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च ॥ 023c
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् । 024a
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ॥ 024c
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम् । 025a
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः । 025c
सभा च सा महाराज शातकुम्भमयद्रुमा ॥ 025e
दशकिष्कुसहस्राणि समन्तादायताभवत् । 026a
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा ॥ 026c
भ्राजमाना तथाऽत्यर्थं दधार परमं वपुः । 027a
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् ॥ 027c
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा । 028a
नवमेघप्रतीकाशा दिवमावृत्य विष्ठिता । 028c
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥ 028e
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा । 029a
बहुचित्रा बहुधना सुकृता विश्वकर्मणा ॥ 029c
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी । 030a
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः ॥ 030c
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । 031a
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥ 031c
अन्तरिक्षचरा घोरा महाकाया महाबलाः । 032a
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥ 032c
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः । 033a
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥ 033c
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् । 034a
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः । 034c
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम् ॥ 034e
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम् । 035a
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् ॥ 035c
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः । 036a
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥ 036c
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः । 037a
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः ॥ 037c
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः । 038a
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः ॥ 038c
जलजानां च पद्मानां स्थलजानां च सर्वशः । 039a
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥ 039c
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः । 040a
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत् ॥ ॥ 040c
इति श्रीमन्महाभारते सभापर्वणि तृतीयोऽध्यायः ॥ 3 ॥