अध्यायः 002

द्वारकां गच्छतः श्रीकृष्णस्य युधिष्ठरादिभिः सारत्यादिकरणम् ॥ 1 ॥ अर्धयोजनपर्यन्तं गतानां कृष्णपाण्डवानां परस्परानुज्ञया स्वस्वपुरगमनम् ॥ 2 ॥

वैशम्पायन उवाच 001
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः । 001a
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥ 001c
गमनाय मतिं चक्रे पितुर्दर्शनलालसः । 002a
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥ 002c
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः । 003a
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥ 003c
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः । 004a
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ॥ 004c
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तरम् । 005a
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥ 005c
तया स्वजनगामीनि श्रावितो वचनानि सः । 006a
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥ 006c
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम् । 007a
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥ 007c
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः । 008a
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च ॥ 008c
भ्रातृनभ्यगमद्विद्वान्पार्थेन सहितो बली । 009a
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥ 009c
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः । 010a
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः ॥ 010c
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः । 011a
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि ॥ 011c
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः । 012a
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः ॥ 012c
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः । 013a
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत् ॥ 013c
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् । 014a
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम् ॥ 014c
सुतिथावथ नक्षत्रे मुहूर्ते च गुणान्विते । 015a
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः ॥ 015c
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः । 016a
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ॥ 016c
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा । 017a
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम् ॥ 017c
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम् । 018a
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान् ॥ 018c
'छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् । 019a
वैडूर्यमणिदण्डं च चामीकरविभूषितम् । 019c
दधार तरसा भीमः सुच्छत्रं शार्ङ्गधन्वने । 020a
भीमसेनार्जुनौ चापि यमावरिनिषूदनौ' ॥ 020c
पृष्ठतोऽनुययुः कृष्णमृत्विक्पौरजनैर्वृता । 021a
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा ॥ 021c
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः । 022a
'अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा ॥ 022c
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः । 023a
इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः' । 023c
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ॥ 023e
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा । 024a
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः ॥ 024c
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः । 025a
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत ॥ 025c
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित् । 026a
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम् ॥ 026c
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम् । 027a
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः ॥ 027c
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः । 028a
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान् ॥ 028c
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम् ॥ 029a
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा ॥ 029c
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् । 030a
अतृप्तमनसामेव तेषां केशवदर्शने ॥ 030c
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः । 031a
अकामा एव पार्थास्ते गोविन्दगतमानसाः ॥ 031c
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः । 032a
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात् ॥ 032c
सात्वतेन च वीरेण पृष्ठतो यायिना तदा । 033a
दारुकेण च सूतेन सहितो देवकीसुतः । 033c
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान् ॥ 033e
वैशम्पायन उवाच 034
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः । 034a
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम् ॥ 034c
विसृज्य सुहृदः सर्वान्भ्रातॄन्पुत्रांश्च धर्मराट् । 035a
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप ॥ 035c
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम् । 036a
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा ॥ 036c
आहुकं पितरं वृद्धं मातरं च यशस्विनीम् । 037a
अभिवाद्य बलं चैव स्थितः कमललोचनः ॥ 037c
प्रद्युम्नसाम्बनिशठांश्चरुदेष्णं गदं तथा । 038a
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः ॥ 038c
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ । 039a
'स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम् ॥ 039c
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तदा । 040a
विधिवत्कल्पयामास सभां धर्मसुताय वै ॥ ॥ 040c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥