अध्यायः 001
मयस्यार्जुनम्प्रति प्रत्युपकारप्रार्थना ॥ 1 ॥ कृष्णे उपकृते अहमुपकृत मयम्प्रति अर्जुनस्योक्तिः ॥ 2 ॥ कृष्णाज्ञय मयेन सभानिर्माणारम्भः ॥ 3 ॥
॥ श्रीवेदव्यासाय नमः ॥
'नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत् ॥ 001c
जनमेजय उवाच 002
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा । 002a
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ॥ 002c
वैशम्पायन उवाच 003
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते । 003a
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः ॥ 003c
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ । 004a
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि ॥ 004c
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान् । 005a
एतानि पावकात्प्राप्य मुदा परमया युतः । 005c
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः' ॥ 005e
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ । 006a
'पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्' ॥ 006c
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः । 007a
मय उवाच 007
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः ॥ 007c
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते । 008a
'अहं हि विश्वकर्मा वै असुराणां परन्तप ॥ 008c
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम् ॥ 009ac
वैशम्पायन उवाच 010
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम् । 010a
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्' ॥ 010c
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर । 011a
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥ 011c
'प्राप्तोकारादर्थं हि नादास्यामीति मे व्रतम्' । 012a
मय उवाच 012
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ ॥ 012c
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन । 013a
अहं हि विश्वकर्मा वै दानवानां महाकविः ॥ 013c
'सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव । 014a
'दानवानां पुरा पार्थ प्रासादा हि मया कृताः ॥ 014c
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः । 015a
उद्यानानि च रम्याणि सरांसि विविधानि च ॥ 015c
विचित्राणि च वस्त्राणि कामगानि रथानि च । 016a
नगराणि विशालानि साट्टप्राकारवन्ति च ॥ 016c
वाहनानि च मुख्यानि विचित्राणि सहस्रशः । 017a
बिलानि रमणीयानि सुखयुक्तानि वै भृशम् । 017c
एते कृता मया तस्मादिच्छामि फल्गुन' ॥ 017e
अर्जुन उवाच 018
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया । 018a
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ॥ 018c
न चापि तव सङ्कल्पं मोघमिच्छामि दानव । 019a
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ॥ 019c
वैशम्पायन उवाच 020
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ । 020a
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति ॥ 020c
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः । 021a
चोदयामास तं कृष्णः सभा वै क्रियतामिति ॥ 021c
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर । 022a
धर्मराजस्य दयितां यादृशीमिह मन्यसे ॥ 022c
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः । 023a
मनुष्यलोके सकले तादृशीं कुरु वै सभाम् ॥ 023c
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया । 024a
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम् ॥ 024c
वैशम्पायन उवाच 025
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा । 025a
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम् ॥ 025c
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे । 026a
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम् ॥ 026c
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा । 027a
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत ॥ 027c
स पूर्वदेवचरितं तदा तत्र विशाम्पते । 028a
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥ 028c
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु । 029a
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम् ॥ 029c
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः । 030a
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥ 030c
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः । 031a
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥ 031c
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् । 032a
दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥ ॥ 032c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
2-1-1 सभाo 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ॥