अध्यायः 260
मन्दपालस्य पुत्राश्वासनपूर्वकं सर्वैः सहान्यत्र गमनम् ॥ 1 ॥ देवगणैः सहागतस्येन्द्रस्य कृष्णार्जुनवरदानपूर्वकं स्वलोकगमनम् ॥ 2 ॥ अग्नेस्थानगमनानन्तरं कृष्णार्जुनमयानां नदीकूल उपवेशनम् ॥ 3 ॥
मन्दपाल उवाच । 001
युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया । 001a
अग्निना च तथेत्येतिज्ञातं महात्मना ॥ 001c
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । 002a
भवतां च परं वीर्यं पूर्वं नाहमिहागतः ॥ 002c
न सन्तापो हि वः कार्यः पुत्रका हृदि मां प्रति । 003a
ऋषीन्वेद हुताशोपि ब्रह्म तद्विदितं च वः ॥ 003c
वैशम्पायन उवाच । 004
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः । 004a
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥ 004c
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः । 005a
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम् ॥ 005c
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । 006a
जगाम परमां तृप्तिं दर्शयामास चार्जुनम् ॥ 006c
ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः । 007a
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत् ॥ 007c
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । 008a
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह ॥ 008c
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । 009a
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः ॥ 009c
यदा प्रसन्नो भगवान्महादेवो भविष्यति । 010a
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥ 010c
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । 011a
तपसा महता चापि दास्यामि भवतोऽप्यहम् ॥ 011c
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः । 012a
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥ 012c
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । 013a
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते ॥ 013c
एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः । 014a
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः ॥ 014c
पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम् । 015a
अहोभिरेकविंशद्भिर्विरराम सुतर्पितः ॥ 015c
जग्ध्वा मांसानि पीत्वा मेदांसि रुधिराणि च । 016a
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ ॥ 016c
युवाभ्यां पुरुषाग्र्याभ्यां तार्पितोऽस्मि यथासुखम् । 017a
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥ 017c
'गाण्डिवं च धनुर्दिव्यमक्षय्यौ च महेषुधी । 018a
कपिध्वजो रथश्चायं तव दत्तो महामते ॥ 018c
अनेन धनुषा चैव रथेनानेन भारत । 019a
विजेष्यसि रणे शत्रून्सदेवासुरमानुषान् ॥' 019c
एवं तौ समनुज्ञातौ पावकेन महात्मना । 020a
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥ 020c
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । 021a
रमणीये नदीकूले सहिताः समुपाविशन् ॥ 021c
इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥ ॥ समाप्तं मयदर्शनपर्वादिपर्व च ॥
1-260-15 अहानि पञ्च चैकं च इति ख. पाठः ॥ षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥