अध्यायः 259
पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सासूयवचनम् ॥ 1 ॥ अग्निशान्त्यनन्तरं आत्मदिदृक्षयाऽऽगतं मन्दपालं प्रति भार्यया पुत्रैश्च उपालम्भः ॥ 2 ॥ ।
वैशम्पायन उवाच । 001
मन्दपालोऽपि कौरव्यं चिन्तयामास पुत्रकान् । 001a
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति ॥ 001c
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । 002a
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः ॥ 002c
वर्धमाने हुतवहे वाते चाशु प्रवायति । 003a
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥ 003c
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी । 004a
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती ॥ 004c
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान् । 005a
सन्तप्यमाना बहुधा वाशमाना प्रधावती ॥ 005c
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे । 006a
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥ 006c
लालप्यमानं तमृषिं मन्दपालं तथा वने । 007a
लपिता प्रत्युवाचेदं सासूयमिव भारत ॥ 007c
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि । 008a
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥ 008c
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ । 009a
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥ 009c
लोकपालो न तां वाचमुक्त्वा मिथ्या करिष्यति । 010a
समक्षं बन्धुकृत्ये न तेन ते स्वस्थ मानसम् ॥ 010c
तामेव तु ममामित्रां चिन्तयन्परितप्यसे । 011a
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराऽभवत् ॥ 011c
नहि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । 012a
पीड्यमान उपद्रष्टुं शक्तेनामा कथञ्चन ॥ 012c
गच्छ त्वं जरितामेव यदर्थं परितप्यसे । 013a
चरिष्याम्यहमप्येका यथा कुपुरुषाश्रिता ॥ 013c
मन्दपाल उवाच । 014
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । 014a
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥ 014c
भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः । 015a
अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥ 015c
एष हि प्रज्वलन्नग्निर्लेलिहानो महीरुहान् । 016a
आविग्ने हृदि सन्तापं जनयत्यशिवं मम ॥ 016c
वैशम्पायन उवाच । 017
'भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत् । 017a
सान्त्वयामास च पुनः पतिं पतिपरायणा ॥' 017c
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः । 018a
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी ॥ 018c
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः । 019a
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान् ॥ 019c
अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः । 020a
'न श्रद्धेयं ततस्तेषां दर्शनं वै पुनःपुनः ॥ 020c
इति मत्वाऽब्रवीद्वाक्यं जरिता पुत्रगृद्धिनी । 021a
'एकाकशश्च पुत्रांस्तन्क्रोशमानान्वपद्यत ॥ 021c
'जरिता तु परिष्वज्य पुत्रस्नेहाच्चुचुम्ब ह ॥' 022ac
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । 023a
अथ ते सर्व एवैनं नाभ्यनन्दंस्तदा सुताः ॥ 023c
'गुरुत्वान्मन्दपालस्य तपसश्च विशेषतः । 024a
अभिवादामहे सर्वे जातपक्षाः प्रसादतः ॥ 024c
एवमुक्तवतां तेषां प्रतिनन्द्य महातपाः । 025a
परिष्वज्य ततो मूर्ध्नि उपाघ्राय च बलकान् । 025c
पुत्रान्स्वयं समाहूय प्रीतः प्रोवाच गौतमः ॥' 025e
लालप्यमानमेकैकं जरितां च पुनःपुनः । 026a
न चैवोचुस्तदा किञ्चित्तमृषिं साध्वसाधु वा ॥ 026c
मन्दपाल उवाच । 027
ज्येष्ठः सुतस्ते कतमः कतमस्तस्य चानुजः । 027a
मध्यमः कतमश्चैव कनीयान्कतमश्च ते ॥ 027c
एवं ब्रुवन्तं दुःखार्तं किं मा न प्रतिभाषसे । 028a
कृतवानस्मि हव्याशे नैव शान्तिमितो लभे । 028c
'एवमुक्त्वा तु तां पत्नीं मन्दपालस्तदाऽस्पृशत् ॥' 028e
जरितोवाच । 029
किं नु ज्येष्ठेन ते कार्यं किमनन्तरजेन ते । 029a
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः ॥ 029c
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा । 030a
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥ 030c
मन्दपाल उवाच । 031
न स्त्रीणां विद्यते किञ्चिदमुत्र पुरुषान्तरात् । 031a
सापत्नकमृते लोके नान्यदर्थविनाशनम् ॥ 031c
वैराग्निदीपनं चैव भृशमुद्वेगकारि च । 032a
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता ॥ 032c
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत । 033a
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ॥ 033c
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् । 034a
अपध्यानेन सा तेन धूमारुणसमप्रभा । 034c
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति ॥ 034e
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । 035a
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते ॥ 035c
न हि भार्येति विश्वासः कार्यः पुंसा कथञ्चन । 036a
न हि कार्यमनुध्याति नारी पुत्रवती सती ॥ 036c
वैशम्पायन उवाच । 037
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते । 037a
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः ॥ ॥ 037c
इति श्रीमन्महाभारते आदिप्रवणि मयदर्शनपर्वणि ऊनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥
1-259-10 हे स्वस्थ ते तव मानसं तेन हेतुना बन्धुकृत्यलक्षणे रक्षणे समक्षमभिमुखं न किन्तु तामेवेत्यादि स्पष्टार्थम् || 1-259-12 स्प्रष्टुमिति ङ. पाठः ॥ 1-259-13 ह्यपुरुषा तथा इति ङ. पाठः ॥ ऊनषष्ठ्यधिकद्विशततमोऽध्यायः ॥ 259 ॥