अध्यायः 258
जरितार्यादीनां चतुर्णां शार्ङ्गकाणां परस्परं संवादः ॥ 1 ॥ स्तुत्या प्रसन्नेनाग्निना तेभ्योऽभयदानम् ॥ 2 ॥ शार्ङ्गकाणां प्रार्थनया अग्निना मार्जाराणां दाहः ॥ 3 ॥
जरितारिरुवाच । 001
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः । 001a
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ॥ 001c
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते । 002a
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥ 002c
सारिसृक्व उवाच । 003
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः । 003a
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः ॥ 003c
स्तम्बमित्र उवाच । 004
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः । 004a
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥ 004c
द्रोण उवाच । 005
हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम् । 005a
सप्तजिह्वाननः क्रूरो लिहानो विसर्पति ॥ 005c
वैशम्पायन उवाच । 006
एवं सम्भाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः । 006a
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव ॥ 006c
जरितारिरुवाच । 007
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् । 007a
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः ॥ 007c
ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा । 008a
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा ॥ 008c
सारिसृक्क उवाच । 009
माता प्रणष्टा पितरं न विद्मः पक्षा जाता नै नो धूमकेतो । 009a
न नस्त्राता विद्यते वै त्वदन्यस्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने ॥ 009c
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः । 010a
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः ॥ 010c
त्वमेवैकस्तपसे जप्तवेदोनान्यस्तप्ता विद्यते गोषु देव । 011a
ऋषीनस्मान्बालकान्पालयस्वपरेणास्मान्प्रेहि वै हव्यवाह ॥ 011c
स्तम्बमित्र उवाच । 012
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् । 012a
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ 012c
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः । 013a
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च ॥ 013c
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाहकाले प्राप्ते पचसि पुनः समिद्धः । 014a
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ 014c
द्रोण उवाच । 015
त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते । 015a
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ 015c
सूर्यो भूत्वा रश्मिभिर्जातवेदोभूमेरम्भो भूमिजातान्रसांश्च । 016a
विश्वानादाय पुनरुत्सृज्य कालेदृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ 016c
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । 017a
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥ 017c
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् । 018a
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय ॥ 018c
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन । 019a
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव ॥ 019c
वैशम्पायन उवाच । 020
एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना । 020a
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥ 020c
अग्निरुवाच । 021
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया | 021a
ईप्सितं ते करिष्यामि न च ते विद्यते भयम् || 021c
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः । 022a
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥ 022c
तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम् । 023a
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते । 023c
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम ॥ 023e
द्रोण उवाच । 024
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः । 024a
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान् ॥ 024c
वैशम्पायन उवाच । 025
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् । 025a
ददाह खाण्डवं दावं समिद्धो जनमेजय ॥ ॥ 025c
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥