अध्यायः 257

पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम् ॥ 1 ॥

जरितोवाच । 001

अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् । 001a
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः ॥ 001c
शार्ङ्गका ऊचुः । 002
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन । 002a
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः ॥ 002c
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् । 003a
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः ॥ 003c
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते । 004a
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान् ॥ 004c
जरितोवाच । 005
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् । 005a
बिलादाखुं समादाय श्येनं पुत्रा महाबलम् ॥ 005c
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् । 006a
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् ॥ 006c
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि । 007a
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥ 007c
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा । 008a
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् ॥ 008c
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् । 009a
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना ॥ 009c
शार्ङ्गका ऊचुः । 010
न विद्महे हृतं मातः श्येनैनाखुं कथञ्चन । 010a
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः ॥ 010c
जरितोवाच । 011
अहं तमभिजानामि हृतं श्येनेन मूषिकम् । 011a
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम ॥ 011c
शार्ङ्गका ऊचुः । 012
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः । 012a
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥ 012c
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् । 013a
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव ॥ 013c
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे । 014a
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान् ॥ 014c
वयमग्निं समाविश्य लोकानाप्स्याम शोभनान् । 015a
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥ 015c
वैशम्पायन उवाच । 016
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे । 016a
जगाम त्वरिता देशं क्षेममग्नेरनामयम् ॥ 016c
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः । 017a
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः ॥ 017c
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः । 018a
'व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात् ।' 018c
जरितारिस्ततो वाक्यं श्रावयामास पावकम् ॥ ॥ 019ac

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥

1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेर्निवर्तनं दृष्टम् ॥ 1-257-5 अहं वैश्येनमायान्तं इति ङ. पाठः ॥ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥