अध्यायः 256
प्रज्वलदग्निदर्शनेन जरितायाः स्वपुत्रैः संवादः ॥ 1 ॥
वैशम्पायन उवाच । 001
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः । 001a
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥ 001c
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । 002a
जरिता शोकदुःखार्ता विललाप सुदुःखिता ॥ 002c
जरितोवाच । 003
अयमग्निर्दहन्कक्षमित आयाति भीषणः । 003a
जगत्सन्दीपयन्भीमो मम दुःखविवर्धनः ॥ 003c
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । 004a
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः ॥ 004c
त्रासयंश्चायमायाति लेलिहानो महीरुहान् । 005a
अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥ 005c
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना । 006a
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ॥ 006c
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् । 007a
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ॥ 007c
चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन । 008a
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह ॥ 008c
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् । 009a
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः ॥ 009c
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः । 010a
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥ 010c
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा । 011a
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला । 011c
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ॥ 011e
वैशम्पायन उवाच । 012
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् । 012a
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ॥ 012c
अस्मास्विह विनष्टेषु भवितारः सुतास्तव । 013a
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥ 013c
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः । 014a
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥ 014c
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः । 015a
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥ 015c
जरितोवाच । 016
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । 016a
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥ 016c
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । 017a
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥ 017c
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुसञ्चयम् । 018a
रोचतामेष वो वादो मोक्षार्थं च हुताशनात् ॥ 018c
शार्ङ्गका ऊचुः । 019
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । 019a
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः ॥ 019c
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् । 020a
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥ 020c
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । 021a
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥ 021c
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले । 022a
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥ 022c
'अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः ॥' ॥ 023ac
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥
1-256-15 नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति सम्बन्धः ॥ 1-256-18 विहन्तुं दूरीकर्तुम्म् । वादो वचनम् ॥ 1-256-19 क्रव्यादाखुर्मांसाद उन्दुरुः । पश्यमानाः पश्यन्तः ॥ 1-256-20 मोघो निष्फलाऽपत्योत्पत्तिः । ध्रियेत जीवेत ॥ 1-256-22 शिष्टादिष्टः शिष्टैरादिष्टः ॥ षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥