अध्यायः 255
शार्ङ्गकाणां मोचनकारणे जनमेजयेन पृष्टे वैशम्पायनेन मन्दपालोपाख्यानकथनारम्भः ॥ 1 ॥ तपसा पितृलोकं गतस्याप्यनवाप्ततपःफलस्य मन्दपालस्य देवाज्ञया प्रजोत्पादनार्थं पुनर्भूमावागमनम् ॥ 2 ॥ तत्र शार्ङ्ग्यां जरितायां पुत्रचतुष्टयोत्पादनम् ॥ 3 ॥ सपुत्रां जरितां खाण्डवे विसृज्य लपितानाम्न्याऽन्यया शार्ङ्ग्या सङ्गतस्य मन्दपालस्य विप्ररूपाग्निदर्शनम् ॥ 4 ॥ तस्य खाण्डवदिधक्षां ज्ञात्वा पुत्ररक्षणार्थं स्तुतादग्नेर्वरलाभः ॥ 5 ॥
जनमेजय उवाच । 001
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते । 001a
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे ॥ 001c
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च । 002a
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम् ॥ 002c
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम् । 003a
कीर्तयस्वाग्निसम्मर्दे कथं ते न विनाशिताः ॥ 003c
वैशम्पायन उवाच । 004
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते । 004a
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम ॥ 004c
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः । 005a
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥ 005c
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम् । 006a
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥ 006c
स गत्वा तपसः पारं देहमुत्सृज्य भारत । 007a
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥ 007c
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि । 008a
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥ 008c
मन्दपाल उवाच । 009
किमर्थमावृता लोका ममैते तपसाऽर्जिताः । 009a
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम् ॥ 009c
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् । 010a
फलमेतस्य तपसः कथयध्वं दिवौकसः ॥ 010c
देवा ऊचुः । 011
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु । 011a
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥ 011c
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः । 012a
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा ॥ 012c
त इमे प्रसवस्यार्थे तव लोकाः समावृताः । 013a
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान् ॥ 013c
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः । 014a
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम ॥ 014c
वैशम्पायन उवाच । 015
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् । 015a
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥ 015c
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान् । 016a
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥ 016c
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः । 017a
तानपास्य स तत्रैव जगाम लपितां प्रति ॥ 017c
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने । 018a
तस्मिन्गते महाभागे लपितां प्रति भारत ॥ 018c
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् । 019a
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने ॥ 019c
न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान् । 020a
बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ॥ 020c
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः । 021a
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥ 021c
तं सङ्कल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् । 022a
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम् ॥ 022c
पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम् । 023a
मन्दपाल उवाच । 023
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट् ॥ 023c
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक । 024a
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ॥ 024c
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् । 025a
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः ॥ 025c
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन । 026a
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ॥ 026c
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् । 027a
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः ॥ 027c
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः । 028a
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ॥ 028c
तवैव कर्मविहितं भूतं सर्वं चराचरम् । 029a
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ॥ 029c
त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् । 030a
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः ॥ 030c
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः । 031a
वैशम्पायन उवाच । 031
एवं स्तुतस्तदा तेन मन्दपालेन पावकः ॥ 031c
तुतोष तस्य नृपते मुनेरमिततेजसः । 032a
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥ 032c
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् । 033a
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥ 033c
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः । 034a
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया ॥ ॥ 034c
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥
1-255-23 पुत्राणां दहनाद्भीतो इति ङ. पाठः ॥ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 255 ॥