अध्यायः 254
(अथ मयदर्शनपर्व ॥ 19 ॥)
देवेषु पराजितेषु अशरीरवाणीश्रवणेन इन्द्रस्य निवृत्तिः ॥ 1 ॥ पलायमानं मयं हन्तुमुद्युक्ते श्रीकृष्णे आत्मानं शरणागतस्य मयस्य अर्जुनेनाभयदानम् ॥ 2 ॥ खाण्डवदाहेऽपि अश्वसेनादीनामदाहस्य वैशम्पायनेन कथनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । 001a
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥ 001c
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा । 002a
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ॥ 002c
समुद्विग्ना विससृपुस्तथान्या भूतजातयः । 003a
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ ॥ 003c
उत्पातनादशब्देन त्रासिता इव चाभवन् । 004a
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा ॥ 004c
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् । 005a
तेन नादेन रौद्रेण नादेन च विभावसोः ॥ 005c
ररास गगनं कृत्स्नमुत्पातजलदैरिव । 006a
ततः कृष्णो महाबाहुः स्वतेजोभास्वरं महत् ॥ 006c
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः । 007a
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः ॥ 007c
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् । 008a
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः ॥ 008c
वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः । 009a
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः ॥ 009c
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत । 010a
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः ॥ 010c
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः । 011a
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान् ॥ 011c
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा । 012a
समेतानां च सर्वेषां दानवानां च सर्वशः ॥ 012c
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे । 013a
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः ॥ 013c
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः । 014a
शतक्रतुस्तु सम्प्रेक्ष्य विमुखानमरांस्तथा ॥ 014c
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ । 015a
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी ॥ 015c
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना । 016a
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः ॥ 016c
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ । 017a
न च शक्यौ युधा जेतुं कथञ्चिदपि वासव ॥ 017c
वासुदेवार्जुनावेतौ निबोध वचनान्मम । 018a
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ ॥ 018c
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ । 019a
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि ॥ 019c
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ । 020a
पूजनीयतमावेतावपि सर्वैः सुरासुरैः ॥ 020c
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः । 021a
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव ॥ 021c
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् । 022a
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः ॥ 022c
क्रोधामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा । 023a
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः ॥ 023c
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम् । 024a
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु ॥ 024c
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः । 025a
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ ॥ 025c
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा । 026a
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान् ॥ 026c
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान् । 027a
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः ॥ 027c
सञ्सछिद्यमानमिषुभिरस्यता सव्यसाचिना । 028a
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम् ॥ 028c
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे । 029a
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम् ॥ 029c
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव । 030a
न चालभन्त ते शर्म रोधःसु विषमेषु च ॥ 030c
पितृदेवनिवासेषु सन्तापश्चाप्यजायत । 031a
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम् ॥ 031c
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः । 032a
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥ 032c
विद्याधरगणाश्चैव ये च तत्र वनौकसः । 033a
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम् ॥ 033c
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः । 034a
एकायनगता येऽपि निष्पेतुस्तत्र केचन ॥ 034c
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः । 035a
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ॥ 035c
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि । 036a
समांसरुधिरौधैश्च वसाभिश्चापि तर्पितः ॥ 036c
उपर्याकाशगो भूत्वा विधूमः समपद्यत । 037a
दीप्ताक्षो दीप्तजिह्वश्च सम्प्रदीप्तमहाननः ॥ 037c
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् । 038a
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ॥ 038c
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः । 039a
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात् ॥ 039c
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः । 040a
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ॥ 040c
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः । 041a
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम् ॥ 041c
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः । 042a
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम् ॥ 042c
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत् । 043a
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः ॥ 043c
प्रत्युवाच मयं पार्थो जीवयन्निव भारत । 044a
तं न भेतव्यमित्याह मयं पार्थो दयापरः ॥ 044c
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । 045a
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥ 045c
तद्वनं पावको धीमान्दिनानि दश पञ्च च । 046a
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् ॥ 046c
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । 047a
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा ॥ ॥ 047c
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 254 ॥