अध्यायः 253
इन्द्राभिवृष्टस्य जलस्यार्जुनेन निवारणम् ॥ 1 ॥ पुत्रं निगीर्याकाशमुत्पतन्त्याः तक्षकभार्यायाः अर्जुनेन शिरश्छेदः ॥ 2 ॥ इन्द्रेण स्वकृतवायुवर्षमोहितादर्जुनात्तक्षकपुत्रस्याश्वसेनस्य मोचनम् ॥ 3 ॥ पावकान्मुमुक्षूणां नागादीनां मारणम् ॥ 4 ॥ इन्द्रस्य कृष्णार्जुनाभ्यां युद्धम् ॥ 5 ॥
वैशम्पायन उवाच । 001
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत् । 001a
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥ 001c
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः । 002a
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः ॥ 002c
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । 003a
सञ्छाद्यमाने खे बाणैरस्यता सव्यसाचिना ॥ 003c
तक्षकस्तु न तत्रासीन्नागराजो महाबलः । 004a
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः ॥ 004c
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली । 005a
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः ॥ 005c
न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः । 006a
मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥ 006c
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । 007a
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया ॥ 007c
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः । 008a
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः ॥ 008c
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । 009a
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥ 009c
तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः । 010a
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत् ॥ 010c
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । 011a
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ॥ 011c
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः । 012a
योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥ 012c
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम् । 013a
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः ॥ 013c
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । 014a
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान् ॥ 014c
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् । 015a
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् ॥ 015c
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः । 016a
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ॥ 016c
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः । 017a
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः ॥ 017c
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम् । 018a
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ॥ 018c
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः । 019a
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत् ॥ 019c
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । 020a
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः ॥ 020c
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा । 021a
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ ॥ 021c
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । 022a
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः ॥ 022c
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः । 023a
विविशुश्चापि तं दीप्तं देहाभावाय पावकम् ॥ 023c
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । 024a
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः ॥ 024c
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । 025a
कृष्णपार्थौ जिघांसन्तः क्रोधसम्मूर्च्छितौजसः ॥ 025c
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम् । 026a
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥ 026c
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः । 027a
दैत्यदानवसङ्घानां चकार कदनं महत् ॥ 027c
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा । 028a
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः ॥ 028c
ततः शक्रोऽतिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । 029a
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् ॥ 029c
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत् । 030a
हतावेताविति प्राह सुरानसुरसूदनः ॥ 030c
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । 031a
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा ॥ 031c
कालदण्डं यमो राजन् गदां चैव धनेश्वरः । 032a
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम् ॥ 032c
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः । 033a
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि ॥ 033c
जगृहे च धनुर्धाता मुसलं तु जयस्तथा । 034a
पर्वतं चापि जग्राह क्रूद्धस्त्वष्टा महाबलः ॥ 034c
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् । 035a
प्रगृह्य परिघं घोरं विचचारार्यमा अपि ॥ 035c
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान् । 036a
पूषा भगश्च सङ्क्रुद्धः सविता च विशाम्पते ॥ 036c
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः । 037a
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ॥ 037c
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा । 038a
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ॥ 038c
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः । 039a
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे ॥ 039c
युगान्तसमरूपाणि भूतसम्मोहनानि च । 040a
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ ॥ 040c
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ । 041a
आगच्छतस्ततो देवानुभौ युद्धविशारदौ ॥ 041c
व्यताडयेतां सङ्क्रुद्धौ शरैर्वज्रोपमैस्तदा । 042a
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः ॥ 042c
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः । 043a
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ॥ 043c
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः । 044a
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ॥ 044c
बभूव परमप्रीतो भूयश्चैतावयोधयत् । 045a
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ॥ 045c
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः । 046a
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः ॥ 046c
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः । 047a
भूयः संवर्धयामास तद्वर्षं पाकशासनः ॥ 047c
सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः । 048a
विलयं गमयामास हर्षयन्पितरं तथा ॥ 048c
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत् । 049a
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ 049c
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । 050a
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ 050c
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । 051a
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः ॥ 051c
तेनाभिपतता दावं शैलेन महता भृशम् । 052a
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः ॥ ॥ 052c
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥ ॥ समाप्तं च खाण्डवदाहपर्व ॥