अध्यायः 251

अग्निना वरुणात् आहृतानां रथादीनां अर्जुनाय दानम् ॥ 1 ॥ अग्नेः खाण्डवदाहारम्भः ॥ 2 ॥ वैशम्पायन उवाच । 001
एवमुक्तः स भगवान्धूमकेतुर्हुताशनः । 001a
चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥ 001c
आदित्यमुदके देवं निवसन्तं जलेश्वरम् । 002a
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ॥ 002c
तमब्रवीद्भमकेतुः प्रतिगृह्य जलेश्वरम् । 003a
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥ 003c
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । 004a
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥ 004c
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति । 005a
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम् ॥ 005c
ददानीत्येव वरुणः पावकं प्रत्यभाषत । 006a
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ॥ 006c
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च । 007a
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम् ॥ 007c
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम् । 008a
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥ 008c
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । 009a
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी ॥ 009c
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । 010a
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥ 010c
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे । 011a
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ॥ 011c
भानुमन्तं महाघोषं सर्वरत्नमनोरमम् । 012a
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः ॥ 012c
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव । 013a
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ॥ 013c
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया । 014a
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ ॥ 014c
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा । 015a
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः ॥ 015c
'हनूमान्नाम तेजस्वी कामरूपी महाबलः । 016a
'दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत । 016c
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ॥ 016e
नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति । 017a
स तं नानापताकाभिः शोभितं रथसत्तमम् ॥ 017c
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च । 018a
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः ॥ 018c
आरुरोह तदा पार्थो विमानं सुकृती यथा । 019a
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा ॥ 019c
गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः । 020a
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान् ॥ 020c
जग्राह बलमास्थाय ज्यया च युयुजे धनुः । 021a
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह ॥ 021c
येऽशृष्वन्कूजितं यत्र तेषां वै व्यथितं मनः । 022a
लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी ॥ 022c
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि । 023a
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ॥ 023c
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा । 024a
अब्रवीत्पावकश्चैवमेतेन मधुसूदन ॥ 024c
अमानुषानपि रणे जेष्यसि त्वमसंशयम् । 025a
अनेन तु मनुष्याणां देवानामपि चाहवे ॥ 025c
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा । 026a
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे ॥ 026c
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । 027a
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥ 027c
वैशम्पायन उवाच । 028
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । 028a
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः ॥ 028c
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ । 029a
कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥ 029c
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । 030a
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता ॥ 030c
अर्जुन उवाच । 031
चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान् । 031a
चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान् । 031c
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः ॥ 031e
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी । 032a
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥ 032c
सर्वतः परिवार्यैवं दावमेतं महाप्रभो । 033a
कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥ 033c
'यदि खाण्डवमेष्यति प्रमादात्सगणो वा परिरक्षितुं महेन्द्रः । 034a
शरताडितगात्रकुण्डलानां कदनं द्रक्ष्यति देववाहिनीनाम् ॥' 034c
वैशम्पायन उवाच । 035
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । 035a
तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥ 035c
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा । 036a
ददाह खाण्डवं दावं युगान्तमिव दर्शयन् ॥ 036c
प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ । 037a
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत् ॥ 037c
दह्यतस्तस्य च बभौ रूपं दावस्य भारत । 038a
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंशुभिः ॥ ॥ 038c

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥

1-251-2 आदित्यमदितेः पुत्रम् ॥ 1-251-7 महामात्रं प्रधानम् ॥ 1-251-12 भौमनो विश्वकर्मा ॥ 1-251-15 सिंहशार्दूलवद्भयङ्करः केतनः कायोयस्य सः ॥ 1-251-23 कल्यः समर्थः वज्रं वरत्रा सा नाभौ यस्य तत् ॥ 1-251-27 हत्वा हत्वा रिपून्सङ्ख्ये इति घ. पाठः ॥ एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 251 ॥