अध्यायः 250

पुनर्निवेदितविघ्नवृत्तान्तेन ब्रह्मणा आज्ञप्तस्याग्नेः कृष्णार्जुनौप्रति आगमनम् ॥ 1 ॥ वैशम्पायनेन जनमेजयं प्रति खाण्डवदाहकारणकथनसमापनम् ॥ 2 ॥ अर्जुनेन दिव्यानां रथाश्वधनुरादीनां याचनम् ॥ 3 ॥ वैशम्पायन उवाच । 001
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः । 001a
पितामहमुपागच्छत्सङ्क्रुद्धो हव्यवाहनः ॥ 001c
तच्च सर्वं यथान्यायं ब्रह्मणे सन्न्यवेदयत् । 002a
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु ॥ 002c
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ । 003a
कालं च कङ्चित्क्षमतां ततस्तद्धक्ष्यते भवान् ॥ 003c
भविष्यतः सहायौ ते नरनारायणौ तदा । 004a
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन ॥ 004c
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत । 005a
सम्भूतौ तौ विदित्वा तु नरनारायणावृषी ॥ 005c
कालस्य महतो राजंस्तस्य वाक्यं स्वयम्भुवः । 006a
अनुस्मृत्य जगामाथ पुनरेव पितामहम् ॥ 006c
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल । 007a
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः ॥ 007c
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो । 008a
सम्प्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम् ॥ 008c
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते । 009a
तावेतौ सहितावेहि खाण्डवस्य समीपतः ॥ 009c
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च । 010a
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि ॥ 010c
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः । 011a
देवराजं च सहितौ तत्र मे नास्ति संशयः ॥ 011c
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः । 012a
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत ॥ 012c
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम । 013a
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम् ॥ 013c
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः । 014a
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥ 014c
अर्जुन उवाच । 015
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च । 015a
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥ 015c
धनुर्मे नास्ति भगवन्बाहुवीर्येण सम्मितम् । 016a
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम ॥ 016c
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः । 017a
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥ 017c
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः । 018a
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥ 018c
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् । 019a
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥ 019c
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि । 020a
निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥ 020c
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक । 021a
करणानि समर्थानि भगवन्दातुमर्हसि ॥ ॥ 021c

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥