अध्यायः 247
कृष्णानुमत्याऽर्जुनः सुभद्रां जहारेति पौराणामूहः ॥ 1 ॥ अर्जुने इन्द्रप्रस्थं प्राप्तं ज्ञात्वा यादवैः सह श्रीकृष्णस्य इन्द्रप्रस्थं प्रत्यागमनम् ॥ 2 ॥ आगताञ्श्रीकृष्णादीञ्श्रुत्वा युधिष्ठिरस्य प्रत्युद्गमनं तेषां सत्कारश्च ॥ 3 ॥ वैवाहिकमहोत्सवकरणम् ॥ 4 ॥ पारिबर्हदानम् ॥ 5 ॥ कञ्चित्कालं तत्रोषितानां कुरुभिः पूजितानां बलरामादीनां द्वारकां प्रति गमनम् ॥ 6 ॥ अभिमन्यूत्पत्तिः ॥ 7 ॥ द्रौपद्याः युधिष्ठिरादिभ्यः पञ्चपुत्रोत्पत्तिः तेषां विद्याभ्यासश्च ॥ 8 ॥
वैशम्पायन उवाच । 001
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे । 001a
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः ॥ 001c
पुरस्तादेव पौराणां संशयः समजायत । 002a
जानता वासुदेवेन वासितो भरतर्षभः ॥ 002c
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा । 003a
सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः ॥ 003c
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना । 004a
अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम् ॥ 004c
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम् । 005a
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम् ॥ 005c
इति पौरजनाः सर्वे वदन्ति च समन्ततः । 006a
'श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् ॥ 006c
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा । 007a
'यियासुः खाण्डवप्रस्थममन्त्रयत केशवः ॥ 007c
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः । 008a
तथा विपृथुमक्रूरं सङ्कर्षणविडूरथौ ॥ 008c
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः । 009a
सङ्कर्षणेन सम्मन्त्र्य ह्यनुज्ञातो महामनाः ॥ 009c
सम्प्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः । 010a
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् ॥ 010c
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम् । 011a
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत ॥ 011c
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा । 012a
गजांश्च परमप्रीतः समपद्यन्त वृष्णयः ॥' 012c
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः । 013a
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ॥ 013c
सैन्येन महता शौरिरभिगुप्तः समन्ततः । 014a
तत्र दानपतिः श्रीमाञ्जगाम स महायशाः ॥ 014c
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः । 015a
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ॥ 015c
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महामनाः । 016a
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ॥ 016c
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च । 017a
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ॥ 017c
सारणश्च महाबाहुर्गदश्च विदुषां वरः । 018a
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ॥ 018c
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु । 019a
'उपहारं समादाय पृथुवृष्णिपुरोगमाः ॥ 019c
प्रययुः सिंहनादेन सुभद्रामवलोककाः । 020a
ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः । 020c
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् ॥' 020e
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् । 021a
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥ 021c
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत् । 022a
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥ 022c
सम्मृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम् । 023a
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥ 023c
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना । 024a
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥ 024c
प्रतिपेदे महाबाहुः सह रामेण केशवः । 025a
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥ 025c
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । 026a
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥ 026c
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि । 027a
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे ॥ 027c
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन् । 028a
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥ 028c
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः । 029a
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥ 029c
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् । 030a
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥ 030c
'ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह । 031a
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः ॥ 031c
हर्षादभिगतौ दृष्ट्वा सङ्कर्षणजनार्दनौ । 032a
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत ॥ 032c
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत् । 033a
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः ॥ 033c
प्रवालानि च हाराणि भूषणानि सहस्रशः । 034a
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् ॥ 034c
विविधैश्चैव रत्नौघैर्दीप्तप्रभमजायत । 035a
शयनासनयानैश्च युधिष्ठिरनिवेशनम् ॥ 035c
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः । 036a
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥' 036c
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम् । 037a
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ 037c
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । 038a
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः ॥ 038c
सहस्रं प्रददौ कृष्णो गवामयुतमेव च । 039a
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥ 039c
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम् । 040a
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥ 040c
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । 041a
शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च ॥ 041c
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् । 042a
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ 042c
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम् । 043a
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥ 043c
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः । 044a
ददौ शतसहस्राख्यं कन्याधनमनुत्तमम् ॥ 044c
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । 045a
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ 045c
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । 046a
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ 046c
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम् । 047a
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥ 047c
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली । 048a
प्रीयमाणो हलधरः सम्बन्धं प्रति मानयन् ॥ 048c
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । 049a
महागजमहाग्राहः पताकाशैवलाकुलः ॥ 049c
पाण्डुसागरमाविद्धः प्रविवेश महाधनः । 050a
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥ 050c
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः । 051a
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥ 051c
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । 052a
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥ 052c
तत्रतत्र महानादैरुत्कृष्टतलनादितैः । 053a
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ 053c
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् । 054a
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥ 054c
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः । 055a
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ 055c
'रामः सुभद्रां सम्पूज्य परिष्वज्य स्वसां तदा । 056a
न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः ॥ 056c
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा । 057a
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा ॥ 057c
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः । 058a
ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः ॥ 058c
वासुदेवस्तु पार्थेन तत्रैव सह भारत । 059a
'चतुस्त्रिंशदहोरात्रं रममाणो महाबलः ।' 059c
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥ 059e
व्यचरद्यमुनातीरे मृगयां स महायशाः । 060a
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना ॥ 060c
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । 061a
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत् ॥ 061c
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम् । 062a
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥ 062c
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् । 063a
अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम् ॥ 063c
स सात्वत्यामतिरथः सम्बभूव घनञ्जयात् । 064a
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥ 064c
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः । 065a
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत ॥ 065c
दयितो वासुदेवस्य वाल्यात्प्रभृति चाभवत् । 066a
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥ 066c
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । 067a
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ 067c
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः । 068a
अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम् ॥ 068c
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । 069a
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥ 069c
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना । 070a
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥ 070c
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । 071a
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥ 071c
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । 072a
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥ 072c
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ । 073a
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥ 073c
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा । 074a
लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव ॥ 074c
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् । 075a
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥ 075c
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् । 076a
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥ 076c
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम् । 077a
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥ 077c
सुते सोमसहस्रे तु सोमार्कसमतेजसम् । 078a
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ 078c
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना । 079a
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥ 079c
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः । 080a
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ 080c
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते । 081a
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ 081c
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः । 082a
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥ 082c
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । 083a
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥ 083c
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । 084a
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥ 084c
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः । 085a
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ ॥ 085c
इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥ ॥ समाप्तं च हरणाहरणपर्व ॥
1-247-43 अरोगाणां स्वलङ्कृतां इति ख. पाठः ॥ 1-247-74 धरा पञ्च गणानिव । इति ङ पाठः ॥ 1-247-77 परप्रहरणज्ञाने शत्रुकृतप्रहारवेदनायां विन्ध्य इव निर्विज्ञान इति प्रतिविन्ध्यः ॥ सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥