अध्यायः 246

अर्जुनेन सुभद्रायाः गोपीवेषेण द्रौपदीसमीपप्रेषणम् ॥ 1 ॥ कृतनतिं सुभद्रां प्रति पृथाद्रौपदीभ्यां आशीर्वादः ॥ 2 ॥ स्वपुरं प्रविष्टेनार्जुनेन भ्रातृभ्यः स्वकृततीर्थयात्रावृत्तान्तकथनम् ॥ 3 ॥ वैशम्पायन उवाच । 001
क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम् । 001a
तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया ॥ 001c
ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् । 002a
गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम् ॥ 002c
कामव्याहारिणी कृष्णा रोचतां ते वचो मम । 003a
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम् ॥ 003c
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् । 004a
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् ॥ 004c
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज । 005a
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत ॥ 005c
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे । 006a
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः ॥ 006c
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् । 007a
तरुण्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः ॥ 007c
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः । 008a
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् ॥ 008c
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः । 009a
ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः ॥' 009c
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम् । 010a
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥ 010c
साऽधिकं तेन रूपेण शोभमाना यशस्विनी । 011a
'गोपालिकामध्यगता प्रययौ वृजिनं पुरम् ॥ 011c
त्वरिता खाण्डवप्रस्थमाससाद विवेश च । 012a
'भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥ 012c
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम् । 013a
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥ 013c
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम् । 014a
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ॥ 014c
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत् । 015a
प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च ॥ 015c
परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः । 016a
'वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा ॥ 016c
ओजसा निर्मिता बह्वीरुवाच परमाशिषः । 017a
'तथैव मुदिता भद्रा तामुवाच तथास्त्विति ॥ 017c
'ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम् । 018a
अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च ॥ 018c
ततः किलकिलाशब्दः क्षणेन समपद्यत । 019a
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् ॥ 019c
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः । 020a
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः ॥ 020c
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः । 021a
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् ॥ 021c
ततः पुरवरे यूनां पुंसां वाच उदीरिताः । 022a
अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः ॥ 022c
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् । 023a
सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः ।| 023c
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः । 024a
प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः ॥ 024c
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः । 025a
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः ॥ 025c
यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च । 026a
ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः ॥ 026c
यथार्हं मानयामास पौरजानपदानपि । 027a
तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च ॥ 027c
निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम् । 028a
भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत ॥ 028c
श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः । 029a
पुरस्तादेव तेषां तु पूजयामास चार्जुनम् ॥ 029c
पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः । 030a
न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना ॥ 030c
तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम् । 031a
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् ॥ 031c
गुरूणां श्वशुराणां च देवराणां तथैव च । 032a
सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥' 032c
ततस्ते हृष्टमनसः पाण्डवेया महारथाः । 033a
कुन्ती च परमप्रीता कृष्णा च सततं तथा ॥ ॥ 033c

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥