अध्यायः 245
(अथ हरणाहरणपर्व ॥ 17 ॥)
कृष्णेन बलरामसान्त्वनम् ॥ 1 ॥ अर्जुनम्प्रत्यानेतुं यादवानां गमनम् ॥ 2 ॥ विपृथुवाक्यादुर्जनं दूरगतं ज्ञात्वा तेषां प्रतिनिवर्तनम् ॥ 3 ॥ सुभद्रया सह अर्जुनस्य खाण्डवप्रस्थगमनम् ॥ 4 ॥ 001a
वैशम्पायन उवाच । 001
उक्तवन्तो यथावीर्यमसकृत्सर्ववृष्णयः । 001a
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम् ॥ 001c
'मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः । 002a
अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित् । 002c
शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम् ॥' 002e
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । 003a
सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः ॥ 003c
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । 004a
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥ 004c
प्रदानमपि कन्यायाः पशुवत्को नु मन्यते । 005a
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥ 005c
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः । 006a
'क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात् ।' 006c
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥ 006e
उचितश्चैव सम्बन्धः सुभद्रा च शयस्विनी । 007a
एष चापीदृशः पार्थः प्रसह्य हृतवानतः ॥ 007c
भरतस्यान्वये जातं शान्तनोश्च यशस्विनः । 008a
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम् ॥ 008c
न तं पश्यामि यः पार्थं विजयेत रणे बलात् । 009a
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् ॥ 009c
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष । 010a
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ॥ 010c
'मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ । 011a
'योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् । 011c
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम् ॥ 011e
निवर्तयत संहृष्टा ममैषा परमा मतिः । 012a
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं ॥ 012c
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः । 013a
'पितृष्वसायाः पुत्रो मे सम्बन्धं नार्हति द्विषाम् ।' 013c
तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप ॥ 013e
'उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः । 014a
अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत् ॥ 014c
कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत । 015a
आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः ॥ 015c
त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः । 016a
प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् ॥ 016c
वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः । 017a
उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् ॥ 017c
एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः । 018a
निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता ॥ 018c
एवं मा वद पार्थेति पादयोः पतिता तदा । 019a
सुभद्रा तु कलिर्जाता वृष्णीनां निधाय च ॥ 019c
एवं ब्रुवन्तः पौरास्ते ह्यपवादरताः प्रभो । 020a
मम शोकं वर्धयन्ति तस्मान्नाशं न चिन्तये । 020c
परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् ॥ 020e
वैशम्पायन उवाच । 021
एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा । 021a
गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः ॥ 021c
स्मितपूर्वं तदाऽऽभाष्य परिष्वज्य प्रियां तदा । 022a
उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत् ॥ 022c
ततः सुभद्रा त्वरिता रश्मीन्सङ्गृह्य पाणिना । 023a
चोदयामास जवनाञ्शीग्रमश्वान्कृतत्वरा ॥ 023c
ततस्तु कृतसन्नाहा वृष्णिवीराः समाहिताः । 024a
प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः ॥ 024c
राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् । 025a
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च ॥ 025c
अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः । 026a
केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः ॥ 026c
अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः । 027a
अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः ॥ 027c
श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त महारथाः । 028a
पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम् ॥ 028c
सानुमुज्जयिनीं चैव वनान्युपवनानि च । 029a
पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च ॥ 029c
प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति । 030a
प्रेक्षावर्तं ततः शैलमम्बुदं च नगोत्तमम् ॥ 030c
आराच्छृङ्गमथासाद्य तीर्णः करवतीं नदीम् । 031a
प्राप्य साल्वेयराष्ट्राणि निषधानप्यतीत्य च ॥ 031c
देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः । 032a
तमतीत्य महाबाहुर्देवारण्यमपश्यत ॥ 032c
पूजयामासुरायान्तं देवारण्ये महर्षयः । 033a
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ॥ 033c
अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा । 034a
कौरवं विषयं प्राप्य विशोकः समपद्यत ॥ 034c
सोदर्याणां महाबाहुः सिंहाशयमिवाशयम् । 035a
दूरादुपवनोपेतं समन्तात्सलिलावृतम् ॥ 035c
भद्रया मुदितो जिष्णुर्ददर्श वृजिनं पुरम् ॥ ॥ 036ac
इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥
1-245-20 तस्मात्पापं न चिन्तये ॥ पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 245 ॥