अध्यायः 244
द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना युद्धम् ॥ 1 ॥ विपृथुं जित्वाऽर्जुनस्य खाण्डवप्रस्थं प्रति गमनम् ॥ 2 ॥ युद्धोद्युक्तानां यादवानां बलरामवाक्यान्निवृत्तिः ॥ 3 ॥ बलस्य क्रोधः ॥ 4 ॥
वैशम्पायन उवाच । 001
शासनात्पुरुषेन्द्रस्य बलेन महता बली । 001a
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः ॥ 001c
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः । 002a
सम्बभूव तदा गोप्ता पुरस्य पुरवर्धनः ॥ 002c
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः । 003a
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् ॥ 003c
सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् । 004a
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात् ॥ 004c
सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम् । 005a
पार्थमानर्तयोधानां विस्मयः समपद्यत ॥ 005c
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् । 006a
उवाच परमप्रीता सुभद्रा भद्रभाषिणी ॥ 006c
सङ्ग्रहीतुमभिप्रायो दीर्घकालकृतो मम । 007a
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ ॥ 007c
ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः । 008a
पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम् ॥ 008c
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः । 009a
चोदयाश्वानसंसक्तान्विश्न्तु विपृथोर्बलम् ॥ 009c
बहुभिर्युध्यमानस्य तावकान्विजिघांसतः । 010a
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम ॥ 010c
वैशम्पायन उवाच । 011
एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ । 011a
चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम् ॥ 011c
तदाहतमहावाद्यं समुदग्रध्वजायुतम् । 012a
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत ॥ 012c
रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः । 013a
किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम् ॥ 013c
तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित् । 014a
आवृणोन्महदाकाशं शरैः परपुरञ्जयः ॥ 014c
तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च । 015a
चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च ॥ 015c
युगानीषान्वरूथानि यन्त्राणि विविधानि च । 016a
अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः ॥ 016c
विधनुष्कान्विकवचान्विरथांश्च महारथान् । 017a
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् ॥ 017c
सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् । 018a
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम् ॥ 018c
स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् । 019a
त्वरमाणोऽभिसङ्क्रम्य स्थीयतामित्यभाषत ॥ 019c
ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः । 020a
सागरे मारुतोद्धूता वेलामिव महोर्मयः ॥ 020c
ततो रथवरात्तूर्णमवरुह्य नरर्षभः । 021a
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे ॥ 021c
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव । 022a
निवासमभिजानामि शङ्खचक्रगदाधरात् ॥ 022c
न मेऽस्त्यविदितं किञ्चिद्यद्यदाचितं त्वया । 023a
सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः ॥ 023c
प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय । 024a
बन्धुमानसि रामेण महेन्द्रावरजेन च ॥ 024c
मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः । 025a
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय ॥ 025c
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् । 026a
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः ॥ 026c
अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः । 027a
दीर्घकालावरुद्धं त्वां सम्प्राप्तं प्रियया सह ॥ 027c
पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः । 028a
आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि ॥ 028c
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च । 029a
अरिष्टं याहि पन्थानं सुखी भव धनञ्जय ॥ 029c
नष्टशोकैर्विशोकस्य सुहृद्भिः सङ्गमोऽस्तु ते ॥ 030ac
वैशम्पायन उवाच । 031
ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च । 031a
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः ॥ 031c
पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् । 032a
सर्वरत्नसुसम्पूर्णं सर्वभोगसमन्वितम् ॥ 032c
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । 033a
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ 033c
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । 034a
ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना ॥ 034c
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । 035a
युक्तः सेनानुयात्रेण रथणारोप्य माधवीम् । 035c
रथेनाकाशगेनैव पययौ *स्वपुरं प्रति ॥ 035e
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः । 036a
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम् ॥ 036c
ते समासाद्य सहिताः सुधर्मामभितः सभाम् । 037a
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥ 037c
तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः । 038a
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ 038c
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । 039a
'अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा ।' 039c
अन्नपानमपास्याथ समापेतुः समन्ततः ॥ 039e
तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । 040a
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ 040c
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । 041a
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ 041c
तेषां समुपविष्टानां देवानामिव सन्नये । 042a
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥ 042c
तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः । 043a
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥ 043c
योजयध्वं रथानाशु प्रासानाहरतेति च । 044a
धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ 044c
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च । 045a
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान् ॥ 045c
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । 046a
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत् ॥ 046c
वनमाली ततः क्षीबः कैलासशिखरोपमः । 047a
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥ 047c
किमिदं कुरुथाप्रज्ञास्तूष्णीम्भूते जनार्दने । 048a
अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥ 048c
एष तावदभिप्रायमाख्यातु स्वं महामतिः । 049a
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥ 049c
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । 050a
तूष्णीम्भूतास्ततः सर्वे साधुसाध्विति चाब्रुवन् ॥ 050c
समं वचो निशम्यैव बलदेवस्य धीमतः । 051a
पुनरेवसभामध्ये सर्वे ते समुपाविशन् ॥ 051c
ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः । 052a
'त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् ।' 052c
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥ 052e
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत । 053a
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ 053c
को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति । 054a
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥ 054c
इच्छन्नेव हि सम्बन्धं कृतं पूर्वं च मानयन् । 055a
को हि नाम भवेनार्थी साहसेन समाचरेत् ॥ 055c
सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम् । 056a
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥ 056c
कथं हि शिरसो मध्ये कृतं तेन पदं मम । 057a
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥ 057c
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् । 058a
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥ 058c
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । 059a
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ ॥ 059c
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ ॥ समाप्तं च सुभद्राहरणपर्व ॥
1-244-42 सन्नये समुदाये चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ * 239 तमाध्यायस्य 26 श्लोकादुपरि प्रकृतश्लोकपर्यन्तं विद्यमानानां 248 श्लोकानां स्थाने च, ज, झ, ञ, ड, पुस्तकेषु अधोलिखिता अष्टौ श्लोका एव दृश्यन्ते । 1-244a-1x वैशम्पायन उवाच । 1-244a-1a ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । 1-244a-1b गतां रैवतके कन्यां विदित्वा जनमेजय ॥ 1-244a-2a वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । 1-244a-2b कृष्णस्य मतमादाय प्रययौ भरतर्षभः ॥ 1-244a-3a रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । 1-244a-3b शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ 1-244a-4a सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । 1-244a-4b ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ 1-244a-5a सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । 1-244a-5b मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः ॥ 1-244a-6a सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् । 1-244a-6b दैवतानि च सर्वाणि ब्राह्मणान्स्वस्तिवाच्य च ॥ 1-244a-7a प्रदक्षिणं गिरेः कृत्वा प्रययौ द्वारकां प्रति । 1-244a-7b तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् । 1-244a-7c सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः ॥ 1-244a-8a ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । 1-244a-8b रथेन काञ्चनाङ्गन प्रययौ स्वपुरं प्रति ॥