अध्यायः 243

कृष्णरथमास्थाय सुभद्रयासह अर्जुनस्य खाण्डवप्रस्थं गन्तुं यत्नः ॥ 1 ॥

वैशम्पायन उवाच । 001

वृष्म्यन्धकपुरात्तस्मादपयातुं धनञ्जयः । 001a
विनिश्चित्य तया सार्धं सुभद्रामिदमब्रवीत् ॥ 001c
द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय । 002a
भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम् ॥ 002c
आत्मनश्च समुद्दिश्य महाव्रतसमापनम् । 003a
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् ॥ 003c
तेजोबलजवोपेतैः शुक्लैर्हयवरोत्तमैः । 004a
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥ 004c
युक्तं रथवरं तूर्णमिहानय सुसत्कृतम् । 005a
व्रतार्थमिति भाषित्वा सखीभिः सुभगे सह ॥ 005c
क्षिप्रमादाय पर्येहि सह सर्वायुधेन च । 006a
अनुकर्षान्तपताकाश्च तूणीरांश्च धनूंषि च ॥ 006c
सर्वान्रथवरे स्थाप्य सोत्सेधाश्च महागदाः ॥ 007ac
वैशम्पायन उवाच । 008
अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी । 008a
जगाम नृपतेर्वेश्म सखीभिः सहिता तदा ॥ 008c
व्रतार्थमिति तत्रस्थान्रक्षिणो वाक्यमब्रवीत् । 009a
रथेनानेन यास्यामि महाव्रतसमापनम् ॥ 009c
शैब्यसुग्रीवयुक्तेन सायुधेनैव शार्ङ्गिणः । 010a
रथेन रमणीयेन प्रयास्यामि व्रतार्थिनी ॥ 010c
सुभद्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन् । 011a
योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् ॥ 011c
यथोक्तं सर्वमारोप्य आयुधानि च भामिनी । 012a
क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत् ॥ 012c
रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् । 013a
स त्वं याहि यथाकामं कुरून्कौरवनन्दन ॥ 013c
वैशम्पायन उवाच । 014
निवेद्य तु रथं भर्तुः सुभद्रा भद्रसम्मता । 014a
ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु ॥ 014c
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च । 015a
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च ॥ 015c
तर्पिता विविधैर्भोज्यैस्तान्यवाप्य वसूनि च । 016a
ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः ॥ 016c
सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः । 017a
अभीशुग्रहणे पार्थ न मेऽस्ति सदृशो भुवि ॥ 017c
तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी । 018a
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् ॥ 018c
व्यत्ययित्वा तु तल्लिङ्गं यतिवेषं धनञ्जयः । 019a
आमुच्य कवचं वीरः समुच्छ्रितमहद्धनुः ॥ 019c
आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः । 020a
महेन्द्रदत्तं मुकुटं तथैवाभरणानि च ॥ 020c
अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे । 021a
ततः कन्यापुरे घोषस्तुमुलः समपद्यत ॥ 021c
दृष्ट्वा नववरं पार्थं बाणखड्गधनुर्धरम् । 022a
अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम् ॥ 022c
ऊचुः कन्यास्तदा यान्तीं वासुदेवसहोदराम् । 023a
सर्वकामसमृद्धा त्वं सुभद्रे भद्रभाषिणि ॥ 023c
वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् । 024a
सर्वसीमन्तिनीनां त्वां श्रेष्ठां कृष्णसहोदरीम् ॥ 024c
मन्यामहे महाभागे सुभद्रे भद्रभाषिणि । 025a
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः ॥ 025c
उपपन्नस्त्वया वीरः सर्वलोकमहारथः । 026a
हे प्रयाहि गृहान्भद्रे सुहृद्भिः सङ्गमोऽस्तु ते ॥ 026c
वैशम्पायन उवाच । 027
एवमुक्ता प्रहृष्टाभिः सखीभिः प्रतिनन्दिता । 027a
भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत् ॥ 027c
पार्श्वे चामरहस्ता सा सखी तस्याङ्गनाऽभवत् । 028a
ततः कन्यापुरद्वारात्सघोषादभिनिःसृतम् ॥ 028c
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम् । 029a
सुभद्रासङ्गृहीतस्य रथस्य महतः स्वनम् ॥ 029c
मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः । 030a
सुभद्रया तु सम्पन्ने तिष्ठन्रथवरेऽर्जुनः ॥ 030c
प्रबभौ च तयोपेतः कैलास इव गङ्गया । 031a
पार्थः सुभद्रासहितो विरराज महारथः ॥ 031c
विराजते यथा शक्रो राजञ्शच्या समन्वितः । 032a
सुभद्रां प्रेक्ष्य पार्थेन ह्रियमाणां यशस्विनीम् ॥ 032c
चक्रुः किलकिलाशब्दानासाद्य बहवो जनाः । 033a
दाशार्हाणां कुलस्य श्रीः सुभद्रा मद्रभाषिणी ॥ 033c
अभिकामा सकामेन पार्थेन सह गच्छति । 034c
अथापरे तु सङ्क्रुद्धा गृह्णीत घ्नत माचिरम् ॥ 035a
इति संवार्य शस्त्राणि ववर्षुरभितो दिशम् । 035c
इति सम्भाषमाणानां स नादः सुमहानभूत् ॥ 036a
स तेन जनघोषेण वीरो गज इवार्दितः । 036c
ववर्ष शरवर्षाणि न तु कञ्चन रोषयत् ॥ 037a
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा । 037c
प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च ॥ 038a
क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् । 038c
प्रेक्षन्रैवकतद्वारं निर्ययौ भरतर्षभः ॥ ॥ 039a

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 243 ॥