अध्यायः 242
सुभद्राविवाहः ॥ 1 ॥
वैशम्पायन उवाच । 001
कुकुरान्धकवृष्णीनामपयानं च पाण्डवः । 001a
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् ॥ 001c
शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम् । 002a
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम् ॥ 002c
कन्यायास्तु पिता भ्राता माता मातुल एव वा । 003a
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः ॥ 003c
महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव । 004a
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः ॥ 004c
मम चैव विशालाक्षि विदेशस्था हि बान्धवाः । 005a
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः ॥ 005c
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः । 006a
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥ 006c
वरमाहूय विधिना पित्रा दत्ता तथार्थिने । 007a
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता ॥ 007c
भृत्यानां भरणार्थाय आत्मनः पोषणाय च । 008a
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः ॥ 008c
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् । 009a
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः ॥ 009c
गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् । 010a
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥ 010c
जनयेद्या तु भर्तारं जाया इत्येव नामतः । 011a
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः ॥ 011c
चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः । 012a
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ॥ 012c
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः । 013a
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥ 013c
अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः । 014a
करणं च मुहूर्तं च लग्नसम्पत्तथैव च ॥ 014c
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् । 015a
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च ॥ 015c
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि । 016a
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा ॥ 016c
मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि । 017a
सर्वसम्पदियं भद्रे अद्य रात्रौ भविष्यति ॥ 017c
भगवानस्तमभ्येति आदित्यस्तपतां वरः । 018a
रात्रौ विवाहकालोऽयं भविष्यति न संशयः ॥ 018c
नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत् । 019a
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत् ॥ 019c
मनोभवेन कामेन मोहितं मां प्रलापिनम् । 020a
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥ 020c
वैशम्पायन उवाच । 021
अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् । 021a
नोवाच किञ्चिद्वचनं बाष्पदूषितलोचना ॥ 021c
रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः । 022a
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥ 022c
चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः । 023a
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः ॥ 023c
गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः । 024a
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥ 024c
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः । 025a
निद्रयापहृतज्ञानं रौहिणेयं विना तदा ॥ 025c
सहाक्रूरेण शिनिना सत्यकेन गदेन च । 026a
वसुदेवेन देवक्या आहूकेन च धीमता ॥ 026c
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः । 027a
पूजयित्वा तु देवेशो नारदादीन्महायशाः ॥ 027c
कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः । 028a
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान् ॥ 028c
आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः । 029a
अभिप्रणम्य शिरसा पाकशासनमब्रुवन् । 029c
देवदेव नमस्तेस्तु लोकनाथ जगत्पते ॥ 029e
वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो । 030a
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥ 030c
वैशम्पायन उवाच । 031
एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः । 031a
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा ॥ 031c
विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः । 032a
अरुन्धती शची देवी रुग्मिणी देवकी तथा ॥ 032c
दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः । 033a
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन् ॥ 033c
महर्षिः काश्यपो होता सदस्या नारदादयः । 034a
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने ॥ 034c
अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम् । 035a
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः ॥ 035c
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः । 036a
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥ 036c
पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः । 037a
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा ॥ 037c
कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः । 038a
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः ॥ 038c
पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः । 039a
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः ॥ 039c
तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम् । 040a
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः ॥ 040c
सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना । 041a
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ॥ 041c
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः । 042a
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः ॥ 042c
एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः । 043a
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम् ॥ 043c
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा । 044a
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥ 044c
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ । 045a
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥ 045c
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश । 046a
यादवैः सहितः पश्चादागमिष्यामि भारत । 046c
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे ॥ 046e
वैशम्पायन उवाच । 047
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः । 047a
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा ॥ 047c
तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः । 048a
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत ॥ 048c
स तथा युयुजे वीरो भद्रया भरतर्षभः । 049a
अभिनिष्पन्नया रामः सीतयेव समन्वितः ॥ 049c
अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् । 050a
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम् ॥ 050c
स प्रकृत्या श्रिया दीप्त्या सन्दिदीपे तयाऽधिकम् । 051a
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥ 051c
सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी । 052a
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥ ॥ 052c
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥