अध्यायः 241

यतेः सुभद्रागृहे कृष्णेन स्थापनम् ॥ 1 ॥ श्रुतपूर्वपार्थलक्षणदर्शनेन इमं यतिं अर्जुनं शङ्कमानायाः सुभद्रायाः यतिं प्रति अर्जुनादिकुशलप्रश्नः ॥ 2 ॥ अर्जुनेन तत्वे कथिते मोहितायां सुभद्रायां रुक्मिण्या श्वश्रूसमीपे तद्वृत्तकथनम् ॥ 3 ॥ वासुदेवानुमत्या देवक्या सुभद्राश्वासनम् ॥ 4 ॥ गूढं सुभद्राया विवाहचिकीर्षया कृष्णेन महादेवपूजाव्याजेन सर्वयादवैः सह अन्तर्द्वीपगमनम् ॥ 5 ॥

वैशम्पायन उवाच । 001

स तथेति प्रतिज्ञाय सहितो यतिना हरिः । 001a
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् ॥ 001c
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ । 002a
तां पुरीं प्रविवेशाथ गृह्य हस्तेन पाण्डवम् । 002c
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् ॥ 002e
पार्थमावेदयामास रुक्मिणीसत्यभामयोः । 003a
हृषीकेशवचः श्रुत्वा ते उभे चोचतुर्भृशम् ॥ 003c
मनोरथो महानेष हृदि नौ परिवर्तते । 004a
कदा द्रक्षाव बीभत्सुं पाण्डवं पुरमागतम् ॥ 004c
इत्येवं हर्षमाणे ते वदन्त्यौ सुभृशं प्रियम् । 005a
रुग्मिणीसत्यभामे वै दृष्ट्वा प्रीतोऽभवद्यतिः ॥ 005c
सर्वेषां हर्षमाणानां पार्थो हर्षमुपागमत् । 006a
प्राप्तमज्ञातरूपेण चागतं चार्जुनं हरिः ॥ 006c
सत्कृत्य पूज्यमानं तु प्रीत्या चैव ह्यपूजयत् । 007a
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम् ॥ 007c
सोदर्यां भगिनीं कृष्णः सुभद्रामिदमब्रवीत् । 008a
अयं देशातिथिर्भद्रे संशितव्रतवानृषिः ॥ 008c
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् । 009a
आर्येण च परिज्ञातः पूजनीयो यतिस्त्वया ॥ 009c
रागाद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा । 010a
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः ॥ 010c
सखीभिः सहिता भद्रे भवास्य वशवर्तिनी । 011a
पुरा हि यतयो भद्रे ये भैक्षार्थमनुव्रताः ॥ 011c
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः । 012a
तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः । 012c
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि ॥ 012e
वैशम्पायन उवाच । 013
सा तथेत्यब्रवीत्कृष्णं करिष्यामि यथाऽऽथ माम् । 013a
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् ॥ 013c
एवमेतेन रूपेण कञ्चित्कालं धनञ्जयः । 014a
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः ॥ 014c
तस्य सर्वगुणोपेतां वासुदेवसहोदरीम् । 015a
पश्यतः सततं भद्रां प्रादुरासीन्मनोभवः ॥ 015c
गूहयन्निव चाकारमालोक्य वरवर्णिनीम् । 016a
दीर्घमुष्णं विनिश्वस्य पार्थः कामवशं गतः ॥ 016c
स कृष्णां द्रौपदीं मेने न रूपे भद्रया समाम् । 017a
प्राप्तां भूमान्विन्द्रसेनां साक्षाद्वा वरुणात्मजाम् ॥ 017c
अतीतकाले सम्प्राप्ते सर्वास्तापि सुरस्त्रियः । 018a
न समा भद्रया लोके इत्येवं मन्यतेऽर्जुनः ॥ 018c
अतीतसमये काले सोदर्याणां धनञ्जयः । 019a
न सस्मार सुभद्रायां कामाङ्कुशनिवारितः ॥ 019c
क्रीडारतिपरां भद्रां सखीगणसमावृताम् । 020a
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव विभावसुः ॥ 020c
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः । 021a
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ॥ 021c
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता । 022a
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा ॥ 022c
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति । 023a
पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम् ॥ 023c
अन्योन्यकलहे चापि विवादे चापि वृष्णयः । 024a
अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन् ॥ 024c
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन् । 025a
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः ॥ 025c
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् । 026a
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता ॥ 026c
चारणातिथिसङ्घानां गदस्य च निशम्य सा । 027a
अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे ॥ 027c
कीर्तयन्ददृशे यो यः कथञ्चित्कुरुजाङ्गलम् । 028a
तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति ॥ 028c
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात् । 029a
प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत ॥ 029c
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ । 030a
पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत ॥ 030c
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् । 031a
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा ॥ 031c
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् । 032a
कथं देशाश्च चरिता नानाजनपदाः कथम् ॥ 032c
सरांसि सरितश्चैव वनानि च कथं यते । 033a
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा ॥ 033c
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन् । 034a
उवाच परमप्रीतस्तथा बहुविधाः कथाः ॥ 034c
$निशम्य विविधं तस्य लोके चरितमात्मनः । 035a
तथा परिगतो भावः कन्यायाः समपद्यत ॥ 035c
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम् । 036a
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत ॥ 036c
यतिना रचता देशान्खाण्डवप्रस्थवासिनी । 037a
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा ॥ 037c
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः । 038a
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः ॥ 038c
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः । 039a
नियमे कामभोगानां वर्तमानः प्रिये रतः ॥ 039c
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन् । 040a
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः ॥ 040c
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः । 041a
निशम्य वचनं तस्यास्तामुवाच हसन्निव ॥ 041c
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा । 042a
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते ॥ 042c
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः । 043a
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः ॥ 043c
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि । 044a
निशण्य वचनं तस्य वासुदेवसहोदरी ॥ 044c
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा । 045a
ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः ॥ 045c
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः । 046a
यथा तव गतो भावः श्रवणान्मयि भामिनि ॥ 046c
त्वद्गतः सततं भावस्तथा तव गुणैर्मम । 047a
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः ॥ 047c
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव ॥ 048ac
वैशम्पायन उवाच । 049
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् । 049a
ततः सुभद्रा ललिता लज्जाभावसमन्विता ॥ 049c
मुमोह शयने दिव्ये शयाना न तथोचिता । 050a
नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी ॥ 050c
कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा । 051a
शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने ॥ 051c
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः । 052a
आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः ॥ 052c
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा । 053a
कृशा विवर्णवदना चिन्ताशोकपरायणा ॥ 053c
निश्वासपरमा भद्रा मानसेन मनस्विनी । 054a
न शय्यासनभोगेषु रतिं विन्दति केनचित् ॥ 054c
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना । 055a
एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत् । 055c
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ॥ 055e
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा । 056a
रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत् ॥ 056c
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः । 057a
कन्यापुरमथाविश्य पूजितो भद्रया मुदा ॥ 057c
तं विदित्वा सुभद्रापि लज्जया परिमोहिता । 058a
दिवानिशं शयाना सा नाकरोद्भोजनादिकम् ॥ 058c
एवमुक्ता तया देवी भद्रां शोकपरायणाम् । 059a
तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत् ॥ 059c
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने । 060a
राज्ञे निवेदयित्वापि वसुदेवाय धीमते ॥ 060c
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते । 061a
पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि ॥ 061c
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी । 062a
निवेदयामास तदा भद्रामानकदुन्दुभेः ॥ 062c
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत् । 063a
आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम् ॥ 063c
अक्रूराय च कृष्माय आहुकाय च सात्यकेः । 064a
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः ॥ 064c
वैशम्पायन उवाच । 065
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा । 065a
निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा ॥ 065c
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः । 066a
अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा ॥ 066c
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः । 067a
रुक्मिणी सत्यभामा च देवकी रोहिणी तथा ॥ 067c
वसुदेवेन सहिताः पुरोहितमते स्थिताः । 068a
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत ॥ 068c
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत । 069a
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः ॥ 069c
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन् । 070a
चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये ॥ 070c
नगरे घोषयास हितार्थं सव्यसाचिनः । 071a
इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम् ॥ 071c
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः । 072a
गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः ॥ 072c
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः । 073a
ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत ॥ 073c
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः । 074a
कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः ॥ 074c
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः । 075a
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह ॥ 075c
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः । 076a
ततस्त्वरितमागत्य दाशार्हगणपूजितम् ॥ 076c
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् । 077a
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह ॥ 077c
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा । 078a
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः ॥ 078c
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि । 079a
त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी ॥ 079c
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च । 080a
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् ॥ 080c
संविधानपरा भद्रे भव त्वं वशवर्तिनी ॥ 081ac
वैशम्पायन उवाच । 082
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः । 082a
ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च ॥ 082c
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः । 083a
उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः ॥ 083c
पटहानां प्रणादैश्च भेरीणां निस्वनेन च । 084a
सप्तयोजनविस्तार आयतो दशयोजनम् ॥ 084c
बभूव स महाद्वीपः सपर्वतमहावनः । 085a
सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम् ॥ 085c
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः । 086a
वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः ॥ 086c
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा । 087a
बभूव परमोपेतस्त्रिविष्टप इवापरः ॥ 087c
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः । 088a
उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः ॥ 088c
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः । 089a
विहाराभिगताः सर्वे यादवा हर्षसंयुताः ॥ 089c
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन् । 090a
प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि । 090c
सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत ॥ ॥ 090e

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥