अध्यायः 240

द्वारकायां उपवने वसतः यतिरूपस्यार्जुतस्य रैवतकपर्वतात्प्रतिनिवृत्तैर्यादवैर्दर्शनम् ॥ 1 ॥ यतिनिवासविषये यादवैः पृष्टे सुभद्रागृहे वसत्विति रामोक्तिः ॥ 2 ॥ वैशम्पायन उवाच । 001
चैराः सञ्चारिते तस्मिन्ननुज्ञाते युधिष्ठिरे । 001a
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ॥ 001c
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः । 002a
द्वारकाया उपवने तस्थौ वै कार्यसाधनः ॥ 002c
निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा । 003a
वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु ॥ 003c
चिन्तयानस्ततो भद्रामुपविष्टः शिलातले । 004a
रमणीये वनोद्देशे बहुपादपसंवृते ॥ 004c
सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा । 005a
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा ॥ 005c
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः । 006a
एवमादिभिरन्यैश्च संवृते स शिलातले ॥ 006c
पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् । 007a
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः ॥ 007c
बलदेवं च हार्दिक्यं साम्बं सारणमेव च । 008a
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम् ॥ 008c
भानुं च हरितं चैव विपृथुं पृथुमेव च । 009a
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् ॥ 009c
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः । 010a
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ॥ 010c
ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः । 011a
आस्यतामास्यतां सर्वै रमणीये शिलातले ॥ 011c
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः । 012a
उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन् ॥ 012c
परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः । 013a
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् ॥ 013c
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् । 014a
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि ॥ 014c
त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर । 015a
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च ॥ 015c
वैशम्पायन उवाच । 016
तीर्थानां दर्शनं चैव पर्वतानां च भारत । 016a
आपगानां वनानां च कथयामास ताः कथाः ॥ 016c
श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः । 017a
अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय ॥ 017c
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत । 018a
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः ॥ 018c
आवासं कमुपाश्रित्य वसेत निरुपद्रवः । 019a
इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः ॥ 019c
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् । 020a
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत् ॥ 020c
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः । 021a
वर्षमासनिवासार्थमागतो नः पुरं प्रति । 021c
स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन ॥ 021e
श्रीकृष्ण उवाच । 022
त्वयि स्थिते महाभाग परवानस्मि धर्मतः । 022a
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन ॥ 022c
प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम् । 023a
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः ॥ 023c
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् । 024a
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया ॥ 024c
लतागृहेषु वसतामिति मे धीयते मतिः । 025a
लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः ॥ 025c
श्रीकृष्ण उवाच । 026
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः । 026a
कन्यापुरसमीपे तु न युक्तमिति मे मतिः ॥ 026c
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः । 027a
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव ॥ 027c
शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन ॥ 028ac
बलदेव उवाच । 028
अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः । 029a
धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः ॥ 029c
यतिलिङ्गधरो ह्येष को विजानाति मानसम् । 030a
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् ॥ 030c
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः । 031a
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय ॥ ॥ 031c

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥