अध्यायः 239

(अथ सुभद्राहरणपर्व ॥ 16 ॥)

रवैतकपर्वतम्प्रति उत्सवार्थं कृष्णादीनां गमनम् ॥ 1 ॥ तत्र कृष्णस्य परिव्राजकरूपार्जुनदर्शनम् ॥ 2 ॥ सुभद्रादर्शनेन तस्यां सञ्जातहृच्छयस्यार्जुनस्य यतिरूपेण सुभद्राहरणे कुष्णानुज्ञालाभः ॥ 3 ॥ दूतैनिवेदितैतद्वृत्तान्तेन सपरिवारेण युधिष्ठिरेणाभ्यनुज्ञानम् ॥ 4 ॥ वैशम्पायन उवाच । 001
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ । 001a
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ॥ 001c
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः । 002a
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥ 002c
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः । 003a
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः ॥ 003c
वादित्राणि च तत्रान्ये वादकाः समवादयन् । 004a
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः ॥ 004c
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम् । 005a
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः ॥ 005c
पौराश्च पादचारेण यानैरुच्चावचैस्तथा । 006a
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥ 006c
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः । 007a
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥ 007c
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् । 008a
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥ 008c
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ । 009a
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव ॥ 009c
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः । 010a
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥ 010c
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ । 011a
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः ॥ 011c
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् । 012a
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा ॥ 012c
'वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः । 013a
दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत ॥' 013c
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते । 014a
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥ 014c
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् । 015a
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥ 015c
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत । 016a
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥ 016c
अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत । 017a
वनेचरस्य किमिदं कामेनालोड्यते मनः ॥ 017c
ममैषा भगिनी पार्थ सारणस्य सहोदरी । 018a
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता । 018c
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥ 018e
अर्जुन उवाच । 019
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । 019a
रूपेण चैषा सम्पन्ना कमिवैषा न मोहयेत् ॥ 019c
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् । 020a
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥ 020c
प्राप्तौ तु क उपायः स्यात्तं ब्रवीहि जनार्दन । 021a
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत् ॥ 021c
वासुदेव उवाच । 022
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ । 022a
स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥ 022c
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते । 023a
विवाहहेतुः शूराणामिति धर्मविदो विदुः ॥ 023c
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । 024a
'यतिरूपधरस्तं तु यथा कालविपाकता ।' 024c
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥ 024e
वैशम्पायन उवाच । 025
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् । 025a
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा ॥ 025c
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै । 026a
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः ॥ 026c
'भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते । 027a
इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः ॥ 027c
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम् । 028a
इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान् ॥ ॥ 028c

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥

1-239-5 चञ्चूर्यन्ते देदीप्यन्ते ॥ 1-239-7 क्षीबो मधुमत्तः ॥ 1-239-22 स्वभावस्यानिमित्ततः स्त्रीचित्तस्य शौर्यपाण्डित्याद्यनपेक्षत्वात् । स्त्रियो ह्यपरीक्षितेपि पुंसि आपाततो रमणीये सद्यः सकामा भवन्तीति भावः ॥ ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥