अध्यायः 238

अर्जुनस्य प्रभासतीर्थगमनम् ॥ 1 ॥ तत्र स्मृतिपथागतसुभद्रारूपलावण्यादिकं चिन्तयतोऽर्जुनस्य परिव्राजकवेषस्वीकारेण तस्या हरणे निश्चयः ॥ 2 ॥ अर्जुनस्य चिन्तितज्ञानेन हसता श्रीकृष्णेन सह शायिन्या सत्यभामया हासकारणे पृष्टे तां प्रति अर्जुनवृत्तान्तकथनम् ॥ 3 ॥ सत्यभामां शयने विहाय एकाकिना श्रीकृष्णेन प्रभासतीर्थम्प्रति प्रस्थानम् ॥ 4 ॥ चारमुखेन अर्जुनस्य तत्रागमनं श्रुत्वा कृष्णस्य तत्रागमनम् ॥ 5 ॥ अर्जुनेन सम्भाष्य कृष्णस्य द्वारकाम्प्रति पुनरागमनम् ॥ 6 ॥

वैशम्पायन उवाच । 001
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । 001a
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥ 001c
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । 002a
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥ 002c
'चिन्तयामास रात्रौ तु गदेन कथितं पुरा । 003a
सुभद्रायाश्च माधुर्यरूपसम्पद्गुणानि च ॥ 003c
प्राप्तुं तां चिन्तयामास कोऽत्रोपायो भवेदिति । 004a
वेषवैकृत्यमापन्नः परिव्राजकरूपधृत् ॥ 004c
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् । 005a
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् ॥ 005c
येनकेनाप्युपायेन प्रविश्य च गृहं महत् । 006a
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् ॥ 006c
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् । 007a
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत् ॥ 007c
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः । 008a
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् ॥ 008c
प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे । 009a
चिन्तयामास देवेशं केशवं क्लेशनाशनम् ॥ 009c
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् । 010a
शयानः शयने दिव्ये सत्यभामासहायवान् ॥ 010c
केशवः सहसा राजञ्जहास च ननन्द च । 011a
पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम् ॥ 011c
भगवंश्चिन्तयाविष्टः शयने शयितः सुखम् । 012a
भवान्बहुप्रकारेण जहास च पुनः पुनः ॥ 012c
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि । 013a
वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम् ॥ 013c
श्रीभगवानुवाच । 014
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः । 014a
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा ॥ 014c
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः । 015a
सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि ॥ 015c
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः । 016a
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् ॥ 016c
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् । 017a
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् ॥ 017c
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः । 018a
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे ॥ 018c
योगभारं वहन्नेव मानसं दुःखमाप्तवान् । 019a
एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये ॥ 019c
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत् । 020a
तत उत्थाय शयनात्प्रस्थितो मधुसूदनः ॥' 020c
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । 021a
तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः ॥ 021c
चाराणां चैव वचनादेकाकी स जनार्दनः । 022a
तत्राभ्यगच्छत्कौन्तेयं महात्मानं स माधवः ॥ 022c
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥ 023ac
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । 024a
आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥ 024c
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । 025a
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत ॥ 025c
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा । 026a
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥ 026c
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । 027a
महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ 027c
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । 028a
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम् ॥ 028c
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । 029a
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥ 029c
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः । 030a
सत्कृतं शयनं दिव्यमभ्यगच्छन्महामतिः ॥ 030c
ततस्तत्र महाबाहुः शयानः शयने शुभे । 031a
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम् । 031c
आपगानां वनानां च कथयामास सात्वते ॥ 031e
एवं स कथयन्नेव निद्रया जनमेजय । 032a
कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे ॥ 032c
मधुरेणैव गीतेन वीणाशब्देन चैव ह । 033a
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता ॥ 033c
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । 034a
'वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत् ॥ 034c
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह । 035a
यतिरूपधरं पार्थं विसृज्य सहसा हरिः ।' 035c
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥ 035e
अलङ्कृता द्वारका तु बभूव जनमेजय ॥ 036a
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः । 037a
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥ 037c
'क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः । 038a
कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः ॥' 038c
अवलोकेषु नारीणां सहस्राणि शतानि च । 039a
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥ 039c
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । 040a
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥ 040c
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः । 041a
समानवयसः सर्वानाश्लिष्य स पुनःपुनः ॥ 041c
कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः । 042a
प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन् ॥ ॥ 042c

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥ ॥ समाप्तं चार्जुनवनवासपर्व ॥

1-238-1 अपरान्तेषु पश्चिसमुद्रतीरेषु ॥ 1-238-36 अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि ॥ इति च, ज, झ, ञ, ड, पाठः ॥ 1-238-37 दिदृक्षन्तश्च कौन्तेयं इति च, ज, झ, ञ, ड, पाठः ॥ 1-238-42 कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥ इति च, ज, झ, ञ, ड, पाठः ॥ अष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥ 238 ॥