अध्यायः 237

प्रसादितेन ब्राह्मणेन कृतस्य शापमोचनप्रकारस्य, नारदनिदेशेनैतत्तीर्थागमनस्य च अर्जुनं प्रति वर्गया कथनम् ॥ 1 ॥ एतत्कथां श्रुतवता अर्जुनेन ग्राहरूपाणामवशिष्टानां चतसृणामप्यप्सरसां तत्तत्तीर्थेभ्य उद्धरणेन तासां स्वस्वरूपप्राप्तिः ॥ 2 ॥ पुनर्मणलूरमागत्य तत्र चित्राङ्गदायां जातं बभ्रुवाहननामानं स्वपुत्रं च स्वश्वशुरे समर्प्य अर्जुनस्य गोकर्णक्षेत्रगमनम् ॥ 3 ॥ वर्गोवाच । 001
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम । 001a
अयाम शरणं विप्रं तं तपोधनमच्युतम् ॥ 001c
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । 002a
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥ 002c
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन । 003a
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥ 003c
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः । 004a
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि ॥ 004c
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते । 005a
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥ 005c
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् । 006a
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥ 006c
वैशम्पायन उवाच । 007
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत् । 007a
प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥ 007c
ब्राह्मण उवाच । 008
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम् । 008a
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम् ॥ 008c
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले । 009a
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः ॥ 009c
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ । 010a
अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥ 010c
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह । 011a
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः । 011c
पुण्यानि च भविष्यन्ति पावनानि मनीषिणां ॥ 011e
वर्गोवाच । 012
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम् । 012a
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः ॥ 012c
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् । 013a
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥ 013c
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत । 014a
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥ 014c
सम्प्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् । 015a
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः ॥ 015c
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम् । 016a
श्रुत्वा तत्र यथावृत्तमिदं वचनमब्रवीत् ॥ 016c
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै । 017a
पुण्यानि रमणीयानि तानि गच्छत मा चिरं ॥ 017c
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः । 018a
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥ 018c
'इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत । 019a
'तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः । 019c
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ ॥ 019e
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः । 020a
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥ 020c
वैशम्पायन उवाच । 021
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशाम्पते । 021a
'अवगाह्य च तत्तीर्थं गृहीतो ग्राहिभिस्तदा ॥ 021c
ग्राहीभिश्चोत्तताराशु तरयामास तत्क्षणात् । 022a
सा चाप्सरा बभूवाशु सर्वाभरणभूषिता ॥ 022c
एवं क्रमेण ताः सर्वा मोक्षयामास वीर्यवान् ॥' 023ac
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् । 024a
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा ॥ 024c
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः । 025a
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ ॥ 025c
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् । 026a
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत् ॥ 026c
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम् । 027a
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप ॥ 027c
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः । 028a
इहैव भव भद्रं ते वर्धेथा बभ्रुवाहनम् ॥ 028c
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि । 029a
कुन्ती युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ ॥ 029c
आगत्य तत्र पश्येथा अन्यानपि च बान्धवान् । 030a
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते ॥ 030c
धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः । 031a
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति ॥ 031c
तत्रागच्छन्ति राजानः पृथिव्यां नृपसञ्ज्ञिताः । 032a
बहूनि रत्नान्यादाय आगमिष्यति ते पिता ॥ 032c
एकसार्थं प्रयातासि चित्रवाहनसेवया । 033a
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः ॥ 033c
बभ्रुवाहननाम्ना तु मम प्राणो बहिश्चरः । 034a
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम् ॥ 034c
चित्रवाहनदायादं धर्मात्पौरवनन्दनम् । 035a
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा ॥ 035c
विप्रयोगेण सन्तापं मा कृथास्त्वमनिन्दिते । 036a
चित्राङ्गदामेवमुक्त्वा 'सागरानूपमाश्रितः ॥ 036c
स्थानं दूरं समाप्लुत्य दत्त्वा बहुधनं तदा । 037a
केरलान्समतिक्रम्य' गोकर्णमभितोऽगमत् ॥ 037c
आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम् । 038a
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम् ॥ ॥ 038c

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥

1-236-4 वर्ध वर्धस्व ॥ सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥ 237 ॥