अध्यायः 236
सौभद्रतीर्थे स्नानार्थमवतीर्णस्यार्जुनस्य ग्राहेण ग्रहणम् ॥ 1 ॥ जलादुद्धरणेन ग्राहरूपं परित्यज्य नारीरूपं प्राप्तया वर्गानाम्नया स्वप्रभृतीनां ब्राह्मणेन शापदानकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । 001a
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥ 001c
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः । 002a
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः ॥ 002c
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । 003a
कारन्धमं प्रसन्नं च हयमेधफलं च तत् ॥ 003c
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् । 004a
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः ॥ 004c
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । 005a
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥ 005c
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः । 006a
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥ 006c
तापसा ऊचुः । 007
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । 007a
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥ 007c
वैशम्पायन उवाच । 008
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । 008a
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥ 008c
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । 009a
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ॥ 009c
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । 010a
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥ 010c
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । 011a
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥ 011c
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना । 012a
बभूव नारी कल्याणी सर्वाभरणभूषिता ॥ 012c
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा । 013a
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ॥ 013c
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् । 014a
का वै त्वमसि कल्याणि कुतो वाऽसि जलेचरी ॥ 014c
किमर्थं च महत्पापमिदं कृतवती पुरा । 015a
वर्गोवाच । 015
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी ॥ 015c
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल । 016a
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ॥ 016c
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् । 017a
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ॥ 017c
रूपवन्तमधीयानमेकमेकान्तचारिणम् । 018a
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम् ॥ 018c
आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत् । 019a
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम् ॥ 019c
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया । 020a
अहं च सौरभेयी च समीची बुद्बुदा लता ॥ 020c
यौगपद्येन तं विप्रमभ्यगच्छाम भारत । 021a
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं ॥ 021c
स च नास्मासु कृतवान्मनो वीर कथञ्चन । 022a
नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥ 022c
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । 023a
ग्राहभूता जले यूयं चरिष्यथ शतं समाः ॥ ॥ 023c
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥
1-236-5 धर्मबुद्धिभिर्दुर्मरणजं दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः ॥ 1-236-15 चर्चोवाच इति घ पाठः ॥ षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥