अध्यायः 235
अर्जुनस्य मणलूरग्रामगमनम् ॥ 1 ॥ पुत्रिकापुत्रकधर्मेण चित्राङ्गदापरिग्रहः ॥ 2 ॥
वैशम्पायन उवाच । 001
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत । 001a
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ 001c
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । 002a
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥ 002c
प्रददौ गोसहस्राणि सुबहूनि च भारत । 003a
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥ 003c
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । 004a
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च ॥ 004c
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । 005a
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥ 005c
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । 006a
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥ 006c
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । 007a
महानदीं गयां चैव गङ्गामपि च भारत ॥ 007c
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् । 008a
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः ॥ 008c
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् । 009a
जगाम तानि सर्वाणि पुण्यान्यायतनानि च ॥ 009c
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः । 010a
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । 010c
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥ 010e
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः । 011a
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः ॥ 011c
स कलिङ्गानतिक्रम्य देशानायतनानि च । 012a
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः ॥ 012c
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । 013a
'गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः ॥ 013c
कावेरीं तां समासाद्य सङ्गमे सागरस्य च । 014a
स्नात्वा सम्पूज्य देवांश्च पितॄंश्च मुनिभिः सह' ॥ 014c
समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥ 015ac
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । 016a
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥ 016c
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् । 017a
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥ 017c
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया । 018a
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम् ॥ 018c
अभिगम्य च राजानमवदत्स्वं प्रयोजनम् । 019a
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने ॥ 019c
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् । 020a
उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः ॥ 020c
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः । 021a
राजा प्रभञ्जनो नाम कुलेऽस्मिन्सम्बभूव ह ॥ 021c
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् । 022a
उग्रेण तपसा तेन देवदेवः पिनाकधृक् ॥ 022c
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः । 023a
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले ॥ 023c
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा । 024a
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ॥ 024c
एका च मम कन्येयं कुलस्योत्पादनी भृशम् । 025a
पुत्रो ममायमिति मे भावना पुरुषर्षभ ॥ 025c
पुत्रिकाहेतुविधिना सञ्ज्ञिता भरतर्षभ । 026a
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया ॥ 026c
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । 027a
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ 027c
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च । 028a
'मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् ।' 028c
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह ॥ ॥ 028e
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ 235 ॥