अध्यायः 234

ब्राह्मणैः सह तीर्थान्यटतोऽर्जुनस्य स्नानार्थं गङ्गायामवतरणम् ॥ 1 ॥ तत्र उलूप्या नागकन्यया गृहीतस्यार्जुनस्य नागलोकगमनम् ॥ 2 ॥ संवादपूर्वकमुलूप्याः परिग्रहः ॥ 3 ॥ इरावत उत्पत्तिः ॥ 4 ॥ अर्जुनं पुनर्गङ्गाद्वारमुपनीय उलूप्या स्वलोकगमनम् ॥ 5 ॥

वैशम्पायन उवाच । 001

तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् । 001a
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥ 001c
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः । 002a
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥ 002c
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः । 003a
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥ 003c
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः । 004a
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥ 004c
रमणीयानि चित्राणि वनानि च सरांसि च । 005a
सरितः सागरांश्चैव देशानपि च भारत ॥ 005c
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः । 006a
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः ॥ 006c
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय । 007a
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः ॥ 007c
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत । 008a
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥ 008c
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च । 009a
कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥ 009c
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः । 010a
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥ 010c
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः । 011a
अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥ 011c
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् । 012a
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥ 012c
अपकृष्टो महाबाहुर्नागराजस्य कन्यया । 013a
अन्तर्जले महाराज उलूप्या कामयानया ॥ 013c
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः । 014a
कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ 014c
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः । 015a
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥ 015c
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा । 016a
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत् ॥ 016c
किमिदं साहसं भीरु कृतवत्यसि भामिनि । 017a
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा ॥ 017c
उलूप्युवाच । 018
ऐरावतकुले जातः कौरव्यो नाम पन्नगः । 018a
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी ॥ 018c
साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम् । 019a
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता ॥ 019c
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन । 020a
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ ॥ 020c
अर्जुन उवाच । 021
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् । 021a
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः ॥ 021c
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि । 022a
अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ॥ 022c
कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत् । 023a
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे ॥ 023c
उलूप्युवाच । 024
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् । 024a
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥ 024c
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति । 025a
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम् ॥ 025c
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः । 026a
तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम् ॥ 026c
कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति । 027a
परित्राणं च कर्तव्यमार्तानां पृथुलोचन ॥ 027c
कृत्वा मम परित्राणं तव धर्मो न लुप्यते । 028a
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ॥ 028c
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन । 029a
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो ॥ 029c
न करिष्यसि चेदेवं मृतां मामुपधारय । 030a
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ॥ 030c
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम । 031a
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः ॥ 031c
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता । 032a
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम् । 032c
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥ 032e
वैशम्पायन उवाच । 033
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । 033a
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥ 033c
स नागभवने रात्रिं तामुषित्वा प्रतापवान् । 034a
'पुत्रमुत्पादयामास स तस्यां सुमनोहरम् ॥ 034c
इरावन्तं महाभागं महाबलपराक्रमम् । 035a
'उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥ 035c
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह । 036a
परित्यज्य गता साध्वी उलूपी निजमन्दिरं ॥ 036c
दत्त्वा वरमजेयत्वं जले सर्वत्र भारत । 037a
साध्या जलचराः सर्वे भविष्यन्ति न संशयः ॥ ॥ 037c

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

1-234-36 परिष्वज्येति ख. पाठः ॥ चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥