अध्यायः 233
(अर्थार्जुनवनवासपर्व ॥ 15 ॥)
तस्करैः कस्यचिद्ब्राह्मणस्य गोहरणम् ॥ 1 ॥ चोरितानां गवां प्रत्याजिहीर्षया धनुर्ग्रहणार्थं द्रौपदीयुधिष्ठिराधिष्ठिते आयुधागारे अर्जुनस्य प्रवेशः ॥ 2 ॥ चोरेभ्यः प्रत्याहृता गाः ब्राह्मणाय दत्त्वा यथासमयं अर्जुनस्य तीर्थयात्रा ॥ 3 ॥
वैशम्पायन उवाच ।
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । 001a
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥ 001c
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । 002a
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥ 002c
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । 003a
बभूव परमप्रीता नागैरिव सरस्वती ॥ 003c
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । 004a
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥ 004c
अथ दीर्घेण कालेन ब्राह्मणस्य विशाम्पते । 005a
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम ॥ 005c
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । 006a
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान् ॥ 006c
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । 007a
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः ॥ 007c
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते । 008a
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति ॥ 008c
अरक्षितारं राजानं बलिषद्भागहारिणम् । 009a
तमाहुः सर्वलोकस्य समग्रं पापचारिणम् ॥ 009c
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । 010a
रोरूयमाणे च मयि क्रियतां हस्तधारणा ॥ 010c
वैशम्पायन उवाच । 011
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः । 011a
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥ 011c
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् । 012a
आयुधानि च यत्रासन्पाण्डवानां महात्मनां ॥ 012c
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः । 013a
सम्प्रवेशाय चाशक्तो गमनाय च पाण्डवः ॥ 013c
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः । 014a
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥ 014c
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । 015a
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः ॥ 015c
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । 016a
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥ 016c
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । 017a
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥ 017c
अनापृच्छय तु राजानं गते मयि न संशयः । 018a
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत् ॥ 018c
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । 019a
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः ॥ 019c
अधर्मो वै महानस्तु वने वा मरणं मम । 020a
शरीरस्य विनाशेन धर्म एव विशिष्यते ॥ 020c
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः । 021a
अनुप्रविश्य राजानमापृच्छय च विशाम्पते ॥ 021c
'मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा । 022a
अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः ॥' 022c
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । 023a
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः ॥ 023c
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह । 024a
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव ॥ 024c
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । 025a
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम् ॥ 025c
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः । 026a
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये ॥ 026c
आजगाम पुरं वीरः सव्यसाची धनञ्जयः । 027a
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः ॥ 027c
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो । 028a
समयः समतिक्रान्तो भवत्सन्दर्शने मया ॥ 028c
वनवासं गमिष्यामि समयो ह्येष नः कृतः । 029a
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम् ॥ 029c
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया । 030a
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥ 030c
उवाच दीनो राजा च धनञ्जयमिदं वचः । 031a
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ ॥ 031c
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् । 032a
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥ 032c
गुरोरनुप्रवेशो हि नोपघातो यवीयसः । 033a
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥ 033c
निवर्तस्व महाबाहो कुरुष्व वचनं मम । 034a
न हि ते धर्मलोपोऽस्ति न च ते धर्षणा कृता ॥ 034c
अर्जुन उवाच । 035
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । 035a
न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥ 035c
वैशम्पायन उवाच । 036
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः । 036a
वने द्वादश मासांस्तु वासायानुजगाम ह ॥ ॥ 036c
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥
1-233-3 नागैर्गजवधूरिव इति ङ. पाठः ॥ 1-233-16 उपप्रेक्षणज उपेक्षाजन्यः ॥ 1-233-17 अनास्तिक्यमास्तिक्याभावः ॥ 1-233-30 सज्जमानया स्खलन्त्या ॥ 1-233-36 मासांस्तु ब्रह्मचर्याय दीक्षितः इति ङ. पाठः ॥ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥