अध्यायः 232
सुन्दोपसुन्दलमीपे तिलोत्तमाया आगमनम् ॥ 1 ॥ तस्यां सकामयोस्तयोः परस्परं गदाप्रहारेण मरणम् ॥ 2 ॥ तिलोत्तमाया ब्रह्मणा वरदानम् ॥ 3 ॥ नारदोक्तामिमां कथां श्रुतवद्भिः पाण्डवैः तत्समक्षं द्रौपदीविषये समयकरणम् ॥ 4 ॥
नारद उवाच । 001
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । 001a
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥ 001c
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । 002a
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥ 002c
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन | 003a
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥ 003c
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः । 004a
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥ 004c
अन्तःपुरवनोद्याने पर्वतेषु वनेषु च । 005a
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥ 005c
ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले । 006a
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः ॥ 006c
दिव्येषु सर्वकामेषु समानीतेषु तावुभौ । 007a
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः ॥ 007c
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । 008a
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे ॥ 008c
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । 009a
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा ॥ 009c
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती । 010a
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ 010c
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । 011a
दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥ 011c
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता । 012a
उभौ च कामसम्मत्तावुभौ प्रार्थयतश्च ताम् ॥ 012c
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । 013a
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम् ॥ 013c
वरप्रदानमत्तौ तावौरसेन बलेन च । 014a
धनरत्नमदाभ्यां च सुरापानमदेन च ॥ 014c
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । 015a
मदकामसमाविष्टौ परस्परमथोचतुः ॥ 015c
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । 016a
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥ 016c
नैषा तव ममैषेति ततस्तौ मन्युराविशत् । 017a
तस्या रूपेण सम्मत्तौ विगतस्नेहसौहृदौ ॥ 017c
तस्या हेतोर्गदे भीमे सङ्गृह्णीतामुभौ तदा । 018a
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ ॥ 018c
अहम्पूर्वमहम्पूर्वमित्यन्योन्यं निजघ्नतुः । 019a
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ॥ 019c
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ । 020a
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा ॥ 020c
पातालमगमत्सर्वो विषादभयकम्पितः । 021a
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः ॥ 021c
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम् । 022a
वरेण च्छन्दयामास भगवान्प्रपितामहः ॥ 022c
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः । 023a
आदित्यचरिताल्ँलोकान्विचरिष्यसि भामिनि ॥ 023c
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन । 024a
एवं तस्यै वरं दत्वा सर्वलोकपितामहः ॥ 024c
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः । 025a
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ ॥ 025c
तिलोत्तमार्थं सङ्क्रुद्धावन्योन्यमभिजघ्नतुः । 026a
तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः ॥ 026c
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते । 027a
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥ 027c
वैशम्पायन उवाच । 028
एवमुक्ता महात्मानो नारदेन महर्षिणा । 028a
समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः । 028c
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥ 029a
'एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा' 029c
द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत् । 030a
स नो द्वादश मासानि ब्रह्मचारी वने वसेत् ॥ 030c
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । 031a
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥ 031c
एवं तैः समयः पूर्वं कृतो नारदचोदितैः । 032a
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत ॥ 032c
'अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः । 033a
एतद्विस्तरशः सर्वमाख्यातं ते नराधिप ॥ 033c
काले च तस्मिन्सम्पन्ने यथावज्जनमेजय ॥' ॥ 034ac
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥ ॥ समाप्तं च विदुरागमनराज्यलाभपर्व ॥
1-232-24 तेजसाऽर्कवत्परदृष्ट्यभिभावकत्वात्सुदृष्टां सम्यग्दृष्टां न करिष्यति कश्चित् ॥ द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥