अध्यायः 231

सुन्दोपसुन्दकृतोपद्रवं निवेद्य देवादिभिः प्रार्थितेन ब्रह्मणा आज्ञप्तेन विश्वकर्मणा तिलोत्तमासृष्टिः ॥ 1 ॥ तिलोत्तमया ब्रह्माज्ञास्वीकारः ॥ 2 ॥

नारद उवाच । 001

ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । 001a
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत् ॥ 001c
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । 002a
पितामहस्य भवनं जगतः कृपया तदा ॥ 002c
ततो ददृशुरासीनं सह देवैः पितामहम् । 003a
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥ 003c
तत्र देवो महादेवस्तत्राग्निर्वायुना सह । 004a
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥ 004c
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । 005a
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥ 005c
ऋषयः सर्व एवैते पितामहमुपागमन् । 006a
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥ 006c
सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे । 007a
यथा हृतं यथा चैव कृतं येन क्रमेण च ॥ 007c
न्यवेदयंस्ततः सर्वमखिलेन पितामहे । 008a
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥ 008c
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् । 009a
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ॥ 009c
मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य च निश्चयम् । 010a
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥ 010c
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः । 011a
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥ 011c
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । 012a
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः ॥ 012c
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । 013a
समानयद्दर्शनीयं तत्तदत्र स विश्ववित् ॥ 013c
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत् । 014a
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥ 014c
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । 015a
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ 015c
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । 016a
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ 016c
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती । 017a
'पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत् ॥ 017c
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ । 018a
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः ॥ 018c
सा तेन वरदानेन कर्तुश्च क्रियया तदा । 019a
'जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ 019c
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । 020a
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥ 020c
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् । 021a
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥ 021c
पितामह उवाच । 022
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । 022a
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ 022c
त्वत्कृते दर्शादेव रूपसम्पत्कृतेन वै । 023a
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥ 023c
नारद उवाच । 024
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । 024a
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ 024c
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । 025a
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥ 025c
कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम् । 026a
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ ॥ 026c
द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा । 027a
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥ 027c
पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम् । 028a
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ 028c
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः । 029a
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ 029c
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । 030a
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ 030c
तथा देवनिकायानां महर्षीणां च सर्वशः । 031a
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥ 031c
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् । 032a
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ 032c
गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः । 033a
कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥ 033c
तिलोत्तमायां तस्यां तु गतायां लोकभावनः । 034a
'कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः । 034c
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ ॥ 034e

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥

1-231-23 ताभ्यां तयोः ॥ 1-231-31 देवनिकायानां देवसङ्घानां येन देशेन मार्गेण सा याति तथा मुखान्यभ्यवर्तन्त ॥ एकत्रिंशदधिकद्विशततमोऽध्यायः ॥ 231 ॥