अध्यायः 230
सुन्दोपसुन्दयोः दिग्विजयः कुरुक्षेत्रे निवासश्च ॥ 1 ॥
नारद उवाच । 001
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । 001a
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा ॥ 001c
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः । 002a
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ 002c
गदापिट्टशधारिण्या शूलमुद्गरहस्तया । 003a
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया ॥ 003c
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । 004a
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा ॥ 004c
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ । 005a
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ ॥ 005c
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । 006a
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥ 006c
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा । 007a
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ ॥ 007c
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ । 008a
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः ॥ 008c
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । 009a
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः ॥ 009c
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । 010a
तेजो बलं च देवानां वर्धन्ति श्रियं तथा ॥ 010c
तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम् । 011a
सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥ 011c
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । 012a
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ ॥ 012c
यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः । 013a
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः ॥ 013c
आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम् । 014a
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः ॥ 014c
तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः । 015a
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः ॥ 015c
नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव । 016a
नियमान्सम्परित्यज्य व्यद्रवन्त द्विजातयः ॥ 016c
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । 017a
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥ 017c
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । 018a
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा ॥ 018c
ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ । 019a
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ 019c
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । 020a
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् ॥ 020c
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । 021a
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥ 021c
निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा । 022a
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ 022c
हाहाभूता भयार्ता च निवृत्तविपणापणा । 023a
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥ 023c
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । 024a
अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ॥ 024c
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । 025a
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥ 025c
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । 026a
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ 026c
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । 027a
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ ॥ 027c
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥
1-230-3 प्रस्थितौ सहधर्मिण्या इति ख.पाठः । जयमरणरूपतुल्यधर्म पत्येत्यर्थः । रत्नo ॥ 1-230-19 अदृश्यद्भिः अदृश्यैः तृतीयाचेयं सप्तर्म्येथ ऋषिष्वदृश्येषु सत्स्वित्यर्थः ॥ त्रिंशदधिकद्विशततमोऽध्यायः ॥ 230 ॥