अध्यायः 229

सुन्दोपसुन्दकथा–सुन्दोपसुन्दयोर्ब्रह्मणो वरलाभः ॥ 1 ॥ नारद उवाच । 001
शणु मे विस्तरेणेममितिहासं पुरातनम् । 001a
भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर ॥ 001c
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । 002a
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ 002c
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । 003a
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ ॥ 003c
तावेकनिश्चयौ दैत्यावेककार्यार्थसम्मतौ । 004a
निरन्तरमवर्तेतां समदुःखसुखावुभौ ॥ 004c
विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः । 005a
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ॥ 005c
एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः । 006a
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ॥ 006c
त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् । 007a
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः ॥ 007c
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः । 008a
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥ 008c
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः । 009a
आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । 009c
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ 019e
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । 010a
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत् ॥ 010c
ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः । 011a
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ 011c
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनःपुनः । 012a
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ 012c
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । 013a
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा ॥ 013c
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा । 014a
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः ॥ 014c
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । 015a
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ 015c
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । 016a
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ 016c
ततः पितामहः साक्षादभिगम्य महासुरौ । 017a
वरेण च्छ्दयामास क्वलोकहितः प्रभुः ॥ 017c
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । 018a
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ 018c
ऊचतुश्च प्रभुं देवं तस्तौ सहितौ तदा । 019a
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ॥ 019c
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । 020a
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ 020c
ब्रह्मोवाच । 021
ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति । 021a
अन्यद्वृणीतं मृत्योश्च विधानममरैः सम् ॥ 021c
प्रभविष्याव इति यन्महदभ्युद्यतं तपः । 022a
युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ 022c
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । 023a
हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥ 023c
सुन्दोपसुन्दावूचतुः । 024
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् । 024a
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥ 024c
पितामह उवाच । 025
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । 025a
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति ॥ 025c
नारद उवाच । 026
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । 026a
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ 026c
लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ । 027a
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ 027c
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ । 028a
सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥ 028c
ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः । 029a
महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥ 029c
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम् । 030a
नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः ॥ 030c
भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति । 031a
गीयेतां पीयतां चेति शब्दश्चासीद्गृहे गृहे ॥ 031c
तत्रतत्र महानादैरुत्कृष्टतलनादितैः । 032a
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥ 032c
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । 033a
समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ॥ ॥ 033c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥ 229 ॥