अध्यायः 228

पाण्डवानां समीपे नारदागमनम् ॥ 1 ॥ जनमेजय उवाच । 001
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । 001a
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 001c
सर्व एव महात्मानः सर्वे मम पितामहाः । 002a
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥ 002c
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः । 003a
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥ 003c
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम् । 004a
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह ॥ 004c
वैशम्पायन उवाच । 005
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत् । 005a
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः ॥ 005c
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः । 006a
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥ 006c
जितारयो महात्मानः सत्यधर्मपरायणाः । 007a
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः ॥ 007c
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः । 008a
आसाञ्चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥ 008c
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु । 009a
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः ॥ 009c
'पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च । 010a
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः ॥ 010c
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम् । 011a
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम् ॥ 011c
अवेक्षमाणो द्युतिमानाजगाम महातपाः । 012a
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः ॥ 012c
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः । 013a
नये नीतौ च निरतो विश्रुतश्च महामुनिः ॥ 013c
परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान् । 014a
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्द्विजः ॥ 014c
धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः ।. 015a
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च ॥ 015c
सर्वथा कृतमर्यादो वेदेषु विविधेषु च । 016a
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित् ॥ 016c
ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः । 017a
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः ॥ 017c
श्लक्ष्णया शिखयोपेतः सम्पन्नः परमत्विषा । 018a
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे ॥ 018c
महेन्द्रदत्ते महती बिभ्रत्परमवाससी । 019a
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे ॥ 019c
अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे । 020a
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् ॥ 020c
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् । 021a
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः ॥ 021c
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च । 022a
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः ॥ 022c
गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम् । 023a
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा ॥ 023c
यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः । 024a
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान् ॥ 024c
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः । 025a
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः ॥ 025c
लोपेनागमधर्मेण सङ्क्रमेण च वृत्तिषु । 026a
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान् ॥ 026c
पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता । 027a
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च ॥ 027c
सर्ववर्णविकारेषु नित्यं कुशलपूजितः । 028a
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च ॥ 028c
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु । 029a
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् ॥ 029c
अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् । 030a
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् ॥ 030c
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् । 031a
विभाषितं च समयं भाषितं हृदयङ्गमम् ॥ 031c
आत्मने च परस्मै च स्वरसंस्कारयोगवित् । 032a
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट् ॥ 032c
विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा । 033a
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान् ॥ 033c
अभेदतश्च बहुशो बहुशश्चापि भेदतः । 034a
वक्ता विविधवाक्यानां नानादेशसमीक्षिता ॥ 034c
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता । 035a
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः ॥ 035c
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः । 036a
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम् ॥ 036c
पञ्च चाक्षरजातानि स्वरसञ्ज्ञानि यानि च । 037a
तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च ॥' 037c
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः । 038a
'कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः ॥' 038c
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । 039a
प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत् । 039c
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा ॥ 039e
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति । 040a
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ॥ 040c
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् । 041a
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता ॥ 041c
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह । 042a
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ॥ 042c
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा । 043a
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ॥ 043c
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः । 044a
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥ 044c
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । 045a
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥ 045c
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । 046a
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां ॥ 046c
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ । 047a
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥ 047c
एकराज्यावेकगृहावेकशय्यासनाशनौ । 048a
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥ 048c
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम् । 049a
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥ 049c
युधिष्ठिर उवाच । 050
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । 050a
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ 050c
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा । 051a
यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम् ॥ 051c
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन । 052a
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे ॥ ॥ 052c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥