अध्यायः 227

द्रौपद्या नमस्कृतया गान्धार्या तद्रूपदर्शनेन तस्याः स्वपुत्रमृत्युत्ववितर्कः ॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरस्य धर्मराज्येऽभिषेकः ॥ 2 ॥ पाण्डवानां खाण्डवप्रस्थगमनम् ॥ 3 ॥ श्रीकृष्णचिन्तितेनेन्द्रेण विश्वकर्मणः प्रेषणम् ॥ 4 ॥ विश्वकर्मणा इन्द्रप्रस्थपुरनिर्माणम् ॥ 5 ॥ तत्रागतानां सर्वेषां विसर्जनम् ॥ 6 ॥

'वैशम्पायन उवाच । 001

दुर्योधनस्य महिषी काशिराजसुता तदा । 001a
धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा ॥ 001c
पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम् । 002a
पूजयामास पूजार्हां शचीदेवीमिवागताम् ॥ 002c
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी । 003a
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे ॥ 003c
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम् । 004a
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत ॥ 004c
सञ्चिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा । 005a
कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम् ॥ 005c
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते । 006a
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ ॥ 006c
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः । 007a
तथेत्येव तदा क्षत्ता कारयामास तत्तथा ॥ 007c
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा । 008a
नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् ॥ 008c
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा । 009a
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् ॥ 009c
एवं विहरतां तेषां पाण्डवानां महात्मनाम् । 010a
नेता सर्वस्य कार्यस्य विदुरो राजशासनात् ॥' 010c
विश्रान्तास्ते महात्मानः कञ्चित्कालं सकेशवाः । 011a
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ 011c
धृतराष्ट्र उवाच । 012
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम । 012a
'पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् ॥ 012c
शासनान्मम कौन्तेय मम भ्राता महाबलः । 013a
कृतवान्दुष्करं कर्म नित्यमेव विशाम्पते ॥ 013c
तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम् । 014a
मम पुत्रा दुरात्मानः सर्वेऽहङ्कारसंयुताः ॥ 014c
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर । 015a
स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः ॥' 015c
पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश । 016a
न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ॥ 016c
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा । 017a
अर्धराज्यं तु सम्प्राप्य खाण्डवप्रस्थणाविश ॥ 017c
'केशवो यदि मन्यते तत्कर्तव्यमसंशयम् ॥' 018ac
वैशम्पायन उवाच । 019
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च । 019a
'वासुदेवेन सम्मन्त्र्य पाण्डवाः समुपाविशन् ॥ 019c
धृतराष्ट्र उवाच । 020
अभिषेकस्य सम्भारान्क्षत्तरानय मा चिरम् । 020a
अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम् ॥ 020c
ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः । 021a
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः ॥ 021c
पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम् । 022a
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः ॥ 022c
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय । 023a
मुक्तावलीश्च हारं च निष्काणि कटकानि च ॥ 023c
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम् । 024a
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः ॥ 024c
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः । 025a
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् ॥ 025c
औपवाह्योपरिगतं दिव्यचारमरवीजितम् । 026a
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् ॥ 026c
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा । 027a
दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम् ॥ 027c
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः । 028a
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च ॥ 028c
प्रतिक्रिया कृतमिदं भविष्यति न संशयः । 029a
भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन् ॥ 029c
श्रीवासुदेव उवाच । 030
युक्तमेतन्महाभाग कौरवाणां यशस्करम् । 030a
शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि ॥ 030c
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा । 031a
तथोक्तं धृतराष्ट्रेण कारयामास केशवः ॥ 031c
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा । 032a
आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः ॥ 032c
मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः । 033a
कारयामास विधिवत्केशवानुमते तदा ॥ 033c
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ । 034a
बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः ॥ 034c
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम् ॥ 035ac
व्यास उवाच । 036
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान् । 036a
राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः ॥ 036c
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह । 037a
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन् ॥ 037c
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः । 038a
जयेति संस्तुतो राजा प्रददौ धनमक्षयम् ॥ 038c
सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः । 039a
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः ॥ 039c
रराज राजाभिमतो महेन्द्र इव दैवतैः । 040a
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् ॥ 040c
प्रविवेश तदा राजा नागरैः पूजितो गृहम् । 041a
मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः ॥ 041c
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः । 042a
ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं ॥ 042c
समक्षं वासुदेवस्य कुरूणां च समक्षतः । 043a
अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः ॥ 043c
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव । 044a
आयुः पुरूरवा राजन्नहुषेण ययातिना ॥ 044c
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम । 045a
राजधानी तु सर्वेषां पौरवाणां महाभुज ॥ 045c
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै । 046a
तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय ॥ 046c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः । 047a
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम् ॥ 047c
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम् । 048a
तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ ॥ 048c
वैशम्पायन उवाच । 049
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च । 049a
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः ॥ 049c
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः । 050a
तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे ॥ 050c
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात् । 051a
पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान् ॥ 051c
घोषयामास नगरे धार्तराष्ट्रः ससौबलः । 052a
'ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ॥ 052c
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम् । 053a
'वासुदेवो जगन्नाथश्चिन्तयामास वासवम् ॥ 053c
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत् । 054a
विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम् ॥ 054c
इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति । 055a
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम् ॥ 055c
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत । 056a
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान् ॥ 056c
कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम् । 057a
इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम् ॥ 057c
वैशम्पायन उवाच । 058
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । 058a
स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति ॥ 058c
तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः । 059a
'ततः स विश्वकर्मा तु चकार पुरमुत्तमम् ॥' 059c
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् । 060a
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥ 060c
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च । 061a
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ 061c
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् । 062a
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ 062c
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः । 063a
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥ 063c
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् । 064a
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ॥ 064c
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् । 065a
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ॥ 065c
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः । 066a
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत ॥ 066c
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम् । 067a
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम् ॥ 067c
शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् । 068a
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ॥ 068c
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा । 069a
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः ॥ 069c
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा । 070a
उद्यानानि च रम्याणि नगरस्य समन्ततः ॥ 070c
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा । 071a
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ॥ 071c
शालतालतमालैश्च बकुलैश्च सकेतकैः । 072a
मनोहरैः सुपुष्पैश्च फलभारावनामितैः ॥ 072c
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः । 073a
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः ॥ 073c
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः । 074a
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः ॥ 074c
मत्तबर्हिणसङ्घुष्टकोकिलैश्च सदामदैः । 075a
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः ॥ 075c
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः । 076a
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥ 076c
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः । 077a
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥ 077c
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः । 078a
तडागानि च रम्याणि बृहन्ति सुबहूनि च ॥ 078c
'नदी च नन्दिनी नाम सा पुरीमुपगूहति । 079a
चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम् ॥ 079c
सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा । 080a
उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम् ॥ 080c
नित्यमार्यजनोपेतं नरनारीगणैर्युतम् । 081a
वाजिवारणसम्पूर्णं गोभिरुष्ट्रैः खरैरजैः ॥ 081c
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत । 082a
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा ॥ 082c
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः । 083a
कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः ॥ 083c
द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः । 084a
भ्रातृभिः सहितो राजा राजमार्गमतीत्य च ॥ 084c
औपवाह्यगतो राजा केशवेन सहाभिभूः । 085a
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम् ॥ 085c
वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः । 086a
शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम् ॥ 086c
जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः । 087a
संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः ॥ 087c
औपवाह्यगतो राजा राजमार्गमतीत्य च । 088a
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् ॥ 088c
प्रविश्य भवनं राजा नागरैरभिसंवृतः । 089a
प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः ॥ 089c
पूजयामास विप्रेन्द्रान्केशेन महात्मना । 090a
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम् ॥ 090c
गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत् ॥' 091ac
तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत् । 092a
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ 092c
'सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च । 093a
'तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा ॥ 093c
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः । 094a
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम् ॥ 094c
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा । 095a
'ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च ॥ 095c
द्वैपायनं च सम्पूज्य विसृज्य च नराधिपः । 096a
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम् ॥ 096c
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ । 097a
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम् ॥ 097c
तवैव तु प्रसादेन राज्यस्थाश्च भवामहे । 098a
गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव ॥ 098c
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः । 099a
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ ॥ 099c
श्रीवासुदेव उवाच । 100
त्वत्प्रभावान्महाराज्यं सम्प्राप्तं हि स्वधर्मतः । 100a
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो ॥ 100c
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् । 101a
यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह ॥ 101c
पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव । 102a
अद्यैव नारदः श्रीमानागमिष्यति सत्वरः ॥ 102c
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै । 103a
एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः ॥ 103c
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते । 104a
कुन्त्युवाच । 104
जातुषं गृहमासाद्य मया प्राप्तं यदानघ ॥ 104c
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव । 105a
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम् ॥ 105c
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः । 106a
सर्वदुःखानि शाम्यन्ति तव सन्दर्शनान्मम ॥ 106c
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः ॥ 107ac
वैशम्पायन उवाच । 108
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् । 108a
गमनाय मतिं चक्रे वासुदेवः सहानुगः ॥' 108c
तान्निवेश्य ततो वीरः सह रामेण कौरवान् । 109a
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ ॥ 109c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥ 227 ॥