अध्यायः 226
पाण्डवानां हास्तिनपुरगमनं प्रति श्रीकृष्णद्रुपदयोरभ्यनुज्ञा ॥ 1 ॥ पृथाविदुरसंवादः ॥ 2 ॥ प्रस्थितानां पाण्डवानां द्रुपदेन पारिबर्हदानम् ॥ 3 ॥ प्रत्युद्गमनायागतैः कौरवैः सह पाण्डवानां भीष्मादिवन्दनपुरःसरं गृहप्रवेशः ॥ 4 ॥
द्रुपद उवाच । 001
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् । 001a
ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते प्रभो ॥ 001c
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् । 002a
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ 002c
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः । 003a
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ 003c
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः । 004a
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ 004c
युधिष्ठिर उवाच । 005
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः । 005a
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम् ॥ 005c
वैशम्पायन उवाच । 006
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम । 006a
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ 006c
द्रुपद उवाच । 007
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः । 007a
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ 007c
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् । 008a
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ 008c
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः । 009a
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ 009c
वैशम्पायन उवाच । 010
'पृथायास्तु ततो वेश्म प्रविवेश महामतिः । 010a
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ॥ 010c
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः । 011a
कुन्त्युवाच । 011
वैचित्रवीर्य ते पुत्राः कथञ्चिज्जीवितास्त्वया ॥ 011c
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा । 012a
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र सम्मता ॥ 012c
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा । 013a
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ ॥ 013c
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा । 014a
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः ॥ 014c
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया । 015a
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥ 015c
विदुर उवाच । 016
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः । 016a
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ॥ 016c
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि । 017a
वैशम्पायन उवाच ।' 017
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ॥ 017c
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः । 018a
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ॥ 018c
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् । 019a
'सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥ 019c
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् । 020a
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् ॥ 020c
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् । 021a
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ॥ 021c
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा । 022a
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ॥ 022c
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः । 023a
दासीनामयुतं राजा प्रददौ वरभूषणम् । 023c
ततः सहस्रं दासानां प्रददौ वरधन्वनाम् ॥ 024a
हैमानि शय्यासनभाजनानिद्रव्याणि चान्यानि च गोधनानि । 024c
पृथक्पृथक्चैव ददौ स कोटिम्पाञ्चालराजः परमप्रहृष्टः ॥ 025a
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान् ॥ 025c
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् । 026a
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः ॥ 026c
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत । 027a
नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः ॥' 027c
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः । 028a
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥ 028c
विकर्णं च महेष्वासं चित्रसेनं च भारत । 029a
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥ 029c
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः । 030a
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ 030c
'पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् । 031a
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥ 031c
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः । 032a
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् ॥ 032c
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ । 033a
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ॥' 033c
कौतूहलेन नगरं पूर्यमाणमिवाभवत् । 034a
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः ॥ 034c
'निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः । 035a
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः ॥ 035c
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः । 036a
'तत उच्चावचा वाचः प्रियाः सर्वत्र भारत ॥ 036c
उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयङ्गमाः । 037a
पौरा ऊचुः 037
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ॥ 037c
यो नः स्वानिव दायादान्धर्मेण परिरक्षति । 038a
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम् ॥ 038c
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः । 039a
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम् ॥ 039c
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः । 040a
यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः । 040c
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥ 041a
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । 041c
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ 042a
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते । 042c
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ ॥ 042e
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि षड्विंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥