अध्यायः 225

धृतराष्ट्राज्ञया विदुरस्य द्रुपदनगरगमनम् ॥ 1 ॥ तत्र श्रीकृष्णादीनां समीपे धृतराष्ट्रसन्देशकथनम् ॥ 2 ॥

धृतराष्ट्र उवाच । 001

भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । 001a
'हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम् ।' 001c
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ 001e
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः । 002a
तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ 002c
यथैव मम पुत्राणामिदं राज्यं विधीयते । 003a
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥ 003c
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् । 004a
तया च देवरूपिण्या कृष्णया सह भारत ॥ 004c
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा । 005a
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ 005c
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । 006a
दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ 006c
'त्वमेव गत्वा विदुर तानिहानय मा चिरम् । 007a
वैशम्पायन उवाच । 007
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम् । 007c
आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्' ॥ 007e
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् । 008a
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ 008c
समुपादाय रत्नानि वसूनि विविधानि च । 009a
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह ॥ 009c
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः । 010a
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ 010c
स चापि प्रतिजग्राह धर्मेण विदुरं ततः । 011a
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ 011c
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत । 012a
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ 012c
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम् । 013a
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः ॥ 013c
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् । 014a
प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ 014c
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशाम्पते । 015a
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ 015c
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः । 016a
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च ॥ 016c
विदुर उवाच । 017
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम । 017a
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ 017c
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः । 018a
प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥ 018c
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः । 019a
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ 019c
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव । 020a
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ 020c
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमेयिवान् । 021a
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः ॥ 021c
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता । 022a
यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥ 022c
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् । 023a
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम् ॥ 023c
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः । 024a
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा ॥ 024c
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः । 025a
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयाश्च नः ॥ 025c
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम् । 026a
गमनं सहदाराणामेतदत्र मतं मम ॥ 026c
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । 027a
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् । 027c
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ ॥ 027e

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥ 225 ॥