अध्यायः 223
पाण्डवाः संविभाज्या इति द्रोणवचनम् ॥ 1 ॥ तद्विरोधितया कर्णेन अम्बुवीचवृत्तान्तकथनम् ॥ 2 ॥ मदुक्तं न क्रियते चेत्कुरवो विनङ्क्ष्यन्तीति द्रोणेनोक्तिः ॥ 3 ॥
द्रोण उवाच । 001
मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप । 001a
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम ॥ 001c
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः । 002a
संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ 002c
प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः । 003a
बहुलं रत्नमादाय तेषामर्थाय भारत ॥ 003c
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु । 004a
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥ 004c
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा । 005a
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥ 005c
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् । 006a
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन् ॥ 006c
हिरण्मयानि शुभ्राणि बहून्याभरणानि च । 007a
वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥ 007c
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ । 008a
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ 008c
'दत्त्वा तानि महार्हाणि पाण्डवान्सम्प्रहर्षय । 009a
'एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह । 009c
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति ॥ 009e
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् । 010a
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह ॥ 010c
ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया । 011a
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥ 011c
एतत्तव महाराज तेषु पुत्रेषु चैव हि । 012a
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥ 012c
कर्ण उवाच । 013
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ । 013a
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥ 013c
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना । 014a
ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥ 014c
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा । 015a
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥ 015c
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः । 016a
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥ 016c
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः । 017a
आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥ 017c
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः । 018a
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा ॥ 018c
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा । 019a
स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥ 019c
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च । 020a
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥ 020c
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत । 021a
तथाहि सर्वमादाय राज्यमस्य जिहीर्षति ॥ 021c
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च । 022a
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं ॥ 022c
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता । 023a
यदि ते विहितं राज्यं भविष्यति विशाम्पते ॥ 023c
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम् । 024a
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥ 024c
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् । 025a
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥ 025c
द्रोण उवाच । 026
विद्म ते भावदोषेण यदर्थमिदमुच्यते । 026a
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत ॥ 026c
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम् । 027a
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥ 027c
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् । 028a
कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः ॥ ॥ 028c
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥
1-223-4 मिथः कृत्यं साम्बन्धिकं वरपक्षीयैर्वध्वलङ्कारादिकन्यापक्षीयैर्वरालङ्कारादि ॥ 1-223-15 विधिपूर्वं अदृष्टकारणकम् ॥ 1-223-17 अम्बुवीर इति श्रुतः इति घ. पाठः । विनिन्द इति वितश्रुः इति ङ पाठः । ईश्वरः समर्थः । राजगृहे तन्नामके नगरे ॥ त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥ 001a