अध्यायः 222

भीष्मेण दुर्योधनादिसमीपे पाण्डवेभ्योऽर्धराज्यं दातव्यमिति स्वाभिप्रायकथनम् ॥ 1 ॥ 001 भीष्म उवाच ।
001a न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन ।
001c यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥
002a गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
002a यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥
003a यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
003c तथा कुरूणां सर्वेषामन्येषामपि पार्थिव ॥
004a एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर्धभूमिः ।
004c तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥
005a दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।
005c मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥
006a यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
006c कुत एव तवापीदं भारतस्यापि कस्यचित् ॥
007a अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
007c तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥
008a मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
008c एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥
009a अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
009c तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । 010a
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥ 010c
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । 011a
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति ॥ 011c
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । 012a
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥ 012a
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा । 013a
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः ॥ 013c
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः । 014a
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ॥ 014c
लोके प्राणभृतां किञ्चिच्छ्रुत्वा कुन्तीं तथागताम् । 015a
न चापि दोषेण तथा लोको मन्येत्पुरोचनम् । 015c
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥ 015e
तदिदं जीवितं तेषां तव किल्बिषनाशनम् । 016a
सम्मन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥ 016c
न चापि तेषां वीराणां जीवतां कुरुनन्दन । 017a
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं ॥ 017c
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः । 018a
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥ 018c
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । 019a
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ ॥ 019c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

1-222-8 मधुरेण प्रीत्या ॥ 1-222-13 ध्रियन्ते जीवन्ति ॥ 1-222-15 गच्छति अवगच्छति ॥ द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥ 001a