अध्यायः 221
दुर्योधनं प्रति कर्णोनोक्तं श्रुतवतो धृतराष्ट्रस्य भीष्मादिभिः सह मन्त्रणम् ॥ 1 ॥
कर्ण उवाच । 001
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः । 001a
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन ॥ 001c
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया । 002a
निग्रहीतुं तदा वीर न चैव शकितास्त्वया ॥ 002c
इहैव वर्तमानास्ते समीपे तव पार्थिव । 003a
अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥ 003c
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते । 004a
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता ॥ 004c
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च । 005a
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥ 005c
परस्परेण भेदश्च नाधातुं तेषु शक्यते । 006a
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥ 006c
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः । 007a
परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥ 007c
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता । 008a
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा ॥ 008c
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः । 009a
न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥ 009c
तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान् । 010a
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥ 010c
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ । 011a
यावन्न कृतमूलास्ते पाण्डवेया विशाम्पते ॥ 011c
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम् । 012a
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः । 012c
तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥ 012e
वाहनानि प्रभूतानि मित्राणि च कुलानि च । 013a
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव ॥ 013c
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः । 014a
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव ॥ 014c
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् । 015a
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति ॥ 015c
वसूनि विविधान्भोगान्राज्यमेव च केवलम् । 016a
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथञ्चन ॥ 016c
विक्रमेण मही प्राप्ता भरतेन महात्मना । 017a
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥ 017c
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशाम्पते । 018a
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ 018c
ते बलेन वयं राजन्महता चतुरङ्गिणा । 019a
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ 019c
न हि साम्ना न दानेन न भदेन च पाण्डवाः । 020a
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥ 020c
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् । 021a
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप ॥ 021c
वैशम्पायन उवाच । 022
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् । 022a
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥ 022c
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने । 023a
त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥ 023c
भूय एव तु भीष्मश्च द्रोणो विदुर एव च । 024a
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया ॥ 024c
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः । 025a
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ ॥ 025c
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥
1-221-7 परिद्यूनान् शोच्यान् । मृजावतः सुवेषान् ॥ एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥