अध्यायः 220

धृतराष्ट्रदुर्योधनसंवादः ॥ 1 ॥

'वैशम्पायन उवाच । 001
दुर्योधनेनैवमुक्तः कर्णेन च विशाम्पते । 001a
पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम् ॥ ' 001c
धृतराष्ट्र उवाच । 002
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम् । 002a
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥ 002c
ततस्तेषां गुणानेव कीर्तयामि विशेषतः । 003a
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥ 003c
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन । 004a
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे ॥ 004c
दुर्योधन उवाच । 005
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः । 005a
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥ 005c
अथवा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः । 006a
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥ 006c
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम् । 007a
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥ 007c
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् । 008a
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥ 008c
अथवा कुशळाः केचिदुपायनिपुणा नराः । 009a
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥ 009c
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् । 010a
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥ 010c
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः । 011a
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥ 011c
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते । 012a
सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम् ॥ 012c
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः । 013a
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥ 013c
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । 014a
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक् ॥ 014c
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत् । 015a
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः ॥ 015c
इहागतेषु वा तेषु निदेशवशवर्तिषु । 016a
प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम् ॥ 016c
'दर्पं वा वदतां तेषां केचिदत्र मनस्विनः । 017a
द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः ॥' 017c
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् । 018a
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥ 018c
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै । 019a
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः ॥ 019c
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः । 020a
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥ 020c
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे । 021a
तावदेव हि ते शक्या न शक्यास्तु ततः परम् ॥ 021c
एषा मम मतिस्तात निग्रहाय प्रवर्तते । 022a
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे ॥ ॥ 022c

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥