अध्यायः 219
विदुरात् ज्ञातपाण्डववृत्तान्तेन धृतराष्ट्रेण द्रौपद्यानयनार्थमाज्ञापनम् ॥ 1 ॥ धृतराष्ट्रसमीपे कर्णदुर्योधनयोर्भाषणम् ॥ 2 ॥
वैशम्पायन उवाच । 0
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । 001a
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥ 001c
अथ दुर्योधनो राजा विमना भ्रातृभिः सह । 002a
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ 002c
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । 003a
तं तु दुःशासनोऽव्रीडो मन्दम्मन्दमिवाब्रवीत् ॥ 003c
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः । 004a
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ॥ 004c
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम् । 005a
धिगस्तु पौरुषं मन्त्रं यद्धरन्तीह पाण्डवाः ॥ 005c
'बध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम् । 006a
उद्वाह्य राज्ञां तैर्न्यस्तो वामः पादः पृथासुतैः ॥ 006c
विमुक्ताः कथमेतेन जतुवेश्मविर्भुजः । 007a
अस्माकं पौरुषं सत्वं बुद्धिश्चापि गता ततः ॥ 007c
वयं हता मातुलाद्य विश्वस्य च पुरोचनम् । 008a
अदग्ध्वा पाण्डवानेतान्स्वयं दग्धो हुताशने ॥ 008c
मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः । 009a
तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः ॥ 009c
वैशम्पावयन उवाच । 010a
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् । 010c
पञ्चपुत्रां किरातीं च विदुरं च महामतिम् ॥' 011a
विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥ 011c
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः । 012a
मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च ॥ 012c
धृष्टद्युम्नं तु सञ्चिन्त्य तथैव च शिखण्डिनम् । 013a
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥ 013c
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् । 014a
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ 014c
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते । 015a
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥ 015c
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । 016a
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ 016c
मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । 017a
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ 017c
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । 018a
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ 018c
'अथ स्म पश्चाद्विदुर आचख्यावम्बिकात्मजम् । 019a
कौरव्या इति सामान्यान्न मन्येथास्तवात्मजान् ॥ 019c
वर्धन्त इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः । 020a
कृष्णया संवृताः पार्था विमुक्ता राजसङ्गरात् ॥ 020c
दिष्ट्या कुशलिनो राजन्पूजिता द्रुपदेन च ॥ 021ac
वैशम्पायन उवाच । 023
एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः । 022a
आकारच्छादनार्थाय दिष्ट्यादिष्ट्येति चाब्रवीत् ॥ 022c
धृतराष्ट्र उवाच । 023
एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः । 023a
न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसम्भवा ॥ 023c
साध्वाचारतया तेषां सम्बन्धो द्रुपदेन च । 024a
बभूव परमश्लाघ्यो दिष्ट्यादिष्ट्येति चाब्रवीत् ॥ 024c
अन्ववाये वसोर्जातः प्रवरे मात्स्यके कुले । 025a
वृत्तविद्यातपोवृद्धः पार्थिवानां च सम्मतः ॥ 025c
पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः । 026a
तेषां सम्बन्धिनश्चान्ये बहवः सुमहाबलाः ॥ 026c
यथैव पाण्डोः पुत्रास्ते ततोऽप्यभ्यधिका मम । 027a
सेयमभ्यधिकान्येभ्यो वृत्तिर्विदुर मे मता ॥ 027c
या प्रीतिः पाण्डुपुत्रेषु न साऽन्यत्र ममाभिभो । 028a
नित्योऽयं चिन्तितः क्षत्तः सत्यं सत्येन शपे ॥ 028c
यत्ते कुशलिनो वीराः पाण्डुपुत्रा महारथाः । 029a
मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखास्तथा ॥ 029c
मया श्रुतं यदा वह्नेर्दग्धाः पाण्डुसुता इति । 030a
तदाऽदह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च ॥ 030c
असहायाश्चं मे पुत्रा लूनपक्षा इव द्विजाः । 031a
तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम । 031c
अद्य वै स्थिरसाम्राज्यमाचन्द्रार्कं ममाभवत् ॥' 032a
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् । 032c
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥ 032e
वैशम्पायन उवाच । 033
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । 033a
नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः । 033c
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम् ॥ 033e
ततो दुर्योधनश्चापि राधेयश्च विशाम्पते । 034a
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥ 034c
सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः । 035a
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ 035c
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः । 036a
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदांवर ॥ 036c
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ । 037a
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ 037c
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । 038a
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ ॥ 038c
इति श्रीमन्महाभारते आदिपर्वमि विदुरागमनराज्यलाभपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥
1-219-32 गतश्रीर्नष्टश्रीः को भवेन ऐश्वर्येणार्थी न बुभूषेद्भवितुमिच्छेदपि तु सर्वोपीच्छेत् ॥ एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥