अध्यायः 218

पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः ॥ 1 ॥ पाञ्चालनगरम्प्रति युद्धार्थं दुर्योधनादीनां गमनम् ॥ 2 ॥ तैः सह योद्धुं सपाण्डवस्य द्रुपदस्यागमनम् ॥ 3 ॥ कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः ॥ 4 ॥ अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः ॥ 5 ॥ कर्णदुर्योधनादीनां पराजयः ॥ 6 ॥ पराजितानां तेषां हास्तिनपुरगमनम् ॥ 7 ॥ कृष्णबलरामयोः पाञ्चालपुरे वासः ॥ 8 ॥

वैशम्पायन उवाच । 001

सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा । 001a
उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥ 001c
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् । 002a
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥ 002c
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः । 003a
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥ 003c
सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च । 004a
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥ 004c
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम । 005a
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥ 005c
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः । 006a
प्राकारमवमृद्नन्तु परिघाः पूरयन्त्वपि ॥ 006c
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् । 007a
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥ 007c
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति । 008a
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥ 008c
नागे दशसहस्राणि पञ्च चाश्वपदातिषु । KKK0114218009a
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥ 009c
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः । 010a
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥ 010c
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः । 011a
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥ 011c
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः । 012a
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥ 012c
वैशम्पायन उवाच । 013
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः । 013a
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥ 013c
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः । 014a
यथा पररिपुघ्नानां प्रसभं युद्ध एव च ॥ 014c
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः । 015a
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥ 015c
स राजसागरो भीमो भीमघोषप्रदर्शनः । 016a
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥ 016c
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् । 017a
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥ 017c
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः । 018a
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्रणे || 018c
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः । 019a
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥ 019c
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः । 020a
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥ 020c
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः । 021a
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥ 021c
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः । 022a
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥ 022c
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् । 023a
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥ 023c
बलयोः सम्प्रसरतोः सरितां स्रोतसोरिव । 024a
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥ 024c
ज्योतींषीव प्रकीर्णानि सर्वतः प्रचकाशिरे । 025a
उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महारवे ॥ 025c
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः । 026a
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥ 026c
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः । 027a
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥ 027c
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च । 028a
निर्यातेष्वथ पार्थेषु द्रौपदं तद्बलं रणे ॥ 028c
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति । 029a
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥ 039c
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् । 030a
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥ 030c
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः । 031a
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥ 031c
जयद्रथसुतं तत्र जघान पितुरन्तिके । 032a
वृषसेनादवरजं सुदामानं धनञ्जयः ॥ 032c
कर्णपुत्रं महेष्वासं रथनीडादपातयत् । 033a
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥ 033c
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ । 034a
तौ जग्मतुरसम्भ्रान्तौ फल्गुनस्य रथम्प्रति ॥ 034c
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् । 035a
सन्निपातस्तयोरासीदतिघोरो महामृधे ॥ 035c
वृत्रशम्बरयोः सङ्ख्ये वज्रिणेव महारणे । 036a
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥ 036c
ततः किलिकिलाशब्दः कुरूणामभवत्तदा । 037a
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥ 037c
निमेषान्तरमात्रेण रथमश्वैरयोजयत् । 038a
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥ 038c
सौबलः सौमदत्तिश्च समेयातां परन्तपौ । 039a
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥ 039c
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः । 040a
तैर्निरुद्धो न सन्त्रासं जगाम समितिञ्जयः ॥ 040c
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी । 041a
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥ 041c
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् । 042a
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥ 042c
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः । 043a
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥ 043c
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः । 044a
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥ 044c
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः । 045a
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥ 045c
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः । 046a
रथध्वजपताकाश्च सवर्मन्तरधीयत ॥ 046c
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् । 047a
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥ 047c
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः । 048a
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥ 048c
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् । 049a
त्रीञ्शरान्सन्दधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥ 049c
तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् । 050a
अपोवाह रथाच्चाशु सूतः परपुरञ्जयम् ॥ 050c
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् । 051a
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥ 051c
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् । 052a
गिरा मधुरया चापि समाश्वासयतासकृत् ॥ 052c
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः । 053a
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥ 053c
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः । 054a
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥ 054c
ततः सङ्ग्रामशिरसि ददर्श विपुलद्रुमम् । 055a
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥ 055c
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् । 056a
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥ 056c
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् । 057a
भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥ 057c
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् । 058a
तानि सम्भ्रान्तयोधानि श्रान्तवाजिगजानि च ॥ 058c
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः । 059a
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥ 059c
नानुसस्रुर्न चाजघ्नुर्नोचुः किञ्चिच्च दारुणम् । 060a
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥ 060c
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः । 061a
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥ 061c
यावत्तद्युद्धमभवन्महद्देवासुरोपमम् । 062a
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥ 062c
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् । 063a
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥ 063c
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि । 064a
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥ 064c
ततः प्रयाता राजानः सर्व एव यथागतम् । 065a
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥ 065c
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः । 066a
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥ 066c
तेऽचिरेणैव कालेन सम्प्राप्ता यादवीं पुरीम् । 067a
ऊचुः सङ्कर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥ 067c
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः । 068a
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥ 068c
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् । 069a
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥ 069c
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः । 070a
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥ 070c
तत उद्योजयामास माधवश्चतुरङ्गिणीम् । 071a
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥ 071c
ततः सङ्कर्षणश्चैव केशवश्च महाबलः । 072a
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥ 072c
पितृष्वसारं सम्पूज्य नत्वा चैव तु यादवीम् । 073a
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥ 073c
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् । 074a
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥ 074c
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः । 075a
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥ ॥ 075c

इति श्रीमन्माहाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥