अध्यायः 217

(अथ विदुरागमनराज्यलाभपर्व ॥ 14 ॥)

चारद्वारा पाण्डवविवाहादिवृत्तान्तश्रवणेन अन्यैः राजभिः भीष्मधृतराष्ट्रादीनां धिक्कारः ॥ 1 ॥ धार्तराष्ट्रैः पाण्डवान्प्रति मन्त्रालोचनं ॥ 2 ॥ पाण्डवा हन्तव्या इति शकुनेरुक्तिः ॥ 3 ॥ पाण्डवानां हन्तुमशक्यत्वात्तैः सह सन्धिः कर्तव्य इति सौमदत्तेरुक्तिः ॥ 4 ॥ वैशम्पायन उवाच । 001
ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत । 001a
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥ 001c
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना । 002a
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ 002c
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली । 003a
त्रासयामास सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥ 003c
न चास्य सम्भ्रमः कश्चिदासीत्तत्र महात्मनः । 004a
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥ 004c
'योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा । 005a
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः ॥ 005c
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत् । 006a
तौ यमौ वृत्तसम्पन्नौ सम्पन्नबलविक्रमौ ॥' 006c
ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान् । 007a
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥ 007c
'पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः ।' 008a
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ॥ 008c
'सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी ।' 009a
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः ॥ 009c
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । 010a
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै ॥ 010c
धार्मिकान्वृत्तसम्पन्नान्मातुः प्रियहिते रतान् । 011a
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥ 011c
ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत । 012a
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः ॥ 012c
शकुनिरुवाच । 013
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः । 013a
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः ॥ 013c
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ । 014a
अकृत्वा संविदं काञ्चिन्मनस्तप्स्यत्यसंशयम् ॥ 014c
अयं देशश्च कालश्च पाण्डवाहरणाय नः । 015a
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥ 015c
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् । 016a
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥ 016c
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः । 017a
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान् ॥ 017c
एकीभावं गतो राज्ञा द्रुपदेन महात्मना । 018a
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥ 018c
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः । 019a
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥ 019c
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव । 020a
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम् ॥ 020c
तेषामिहोपयातानामेषां तु चिरवासिनाम् । 021a
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव ॥ 021c
हनध्वं प्रगृहीतानि बलानि बलिनां वराः । 022a
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥ 022c
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम् । 023a
एतन्मम मतं चैव प्राप्तकालं नरर्षभ ॥ 023c
वैशम्पायन उवाच । 024
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः । 024a
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥ 024c
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च । 025a
तथा देशं च कालं च षड्विधान्स नयोद्गुणान् ॥ 025c
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् । 026a
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम् ॥ 026c
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् । 027a
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥ 027c
वपुषा हि तु भूतानां नेत्राणि हृदयानि च । 028a
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ॥ 028c
न तु केवलदैवेन प्रजा भावेन भेजिरे । 029a
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ 029c
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् । 030a
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥ 030c
तानेवङ्गुणसम्पन्नान्सम्पन्नान्राजलक्षणैः । 031a
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात् ॥ 031c
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला । 032a
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति ॥ 032c
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः । 033a
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ॥ 033c
अमित्रांश्च ततो जेतुं न रोषेणेति मे मतिः । 034a
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च ॥ 034c
मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः । 035a
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ॥ 035c
येषामर्थे सदा युक्तौ कृष्णसङ्कर्षणावुभौ । 036a
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम् ॥ 036c
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम् । 037a
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ॥ 037c
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् । 038a
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः ॥ 038c
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः । 039a
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ॥ 039c
दृढप्राकारनिर्यूहं शतघ्नीशतसङ्कुलम् । 040a
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः ॥ 040c
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः । 041a
तदेतन्नरगर्भेण पाण्डरेण विराजते ॥ 041c
सालेनानेकतालेन सर्वतः संवृतं पुरम् । 042a
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ॥ 042c
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये । 043a
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ॥ 043c
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः । 044a
तस्मात्सन्न्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ॥ 044c
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम । 045a
एतन्मम मतं सर्वैः क्रियतां यदि रोचते । 045c
एतद्धि सुकृतं मन्ये क्षेमं चापि महीक्षिताम् ॥ ॥ 045e

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥