अध्यायः 216

द्रौपदीम्प्रति कुन्त्या आशीर्वादः ॥ 1 ॥ श्रीकृष्णप्रेषितालङ्कारादीनां पाण्डवैः स्वीकारः ॥ 2 ॥

वैशम्पायन उवाच । 001

पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह । 001a
न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥ 001c
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । 002a
नाम सङ्कीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः ॥ 002c
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । 003a
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥ 003c
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् । 004a
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥ 004c
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । 005a
रोहिणी च यथा सोमे दमयन्ती यथा नले ॥ 005c
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । 006a
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥ 006c
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । 007a
सुभगा भोगसम्पन्ना यज्ञपत्नी पतिव्रता ॥ 007c
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् । 008a
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥ 008c
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । 009a
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला ॥ 009c
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । 010a
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥ 010c
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते । 011a
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं ॥ 011c
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् । 012a
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां ॥ 012c
वैशम्पायन उवाच । 013
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । 013a
वैदूर्यमणिचित्राणि हैमान्याभरणानि च ॥ 013c
वासांसि च महार्हाणि नानादेश्यानि माधवः । 014a
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥ 014c
शयनासनयानानि विविधानि महान्ति च । 015a
वैदूर्यवज्रचित्राणि शतशो भाजनानि च ॥ 015c
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः । 016a
प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः ॥ 016c
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् । 017a
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान् ॥ 017c
कोटिशश्च सुवर्णं च तेषामकृतकं तथा । 018a
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥ 018c
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । 019a
मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥ ॥ 019c

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥ ॥ समाप्तं वैवाहिकपर्व ॥

1-216-12 हे वधु अद्य ॥ षोडशाधिकद्विशततमोऽध्यायः ॥ 216 ॥