अध्यायः 215
युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम् ॥ 1 ॥
द्रुपद उवाच । 001
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम् । 001a
न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम् ॥ 001c
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं तेन किञ्चित् । 002a
कृतं निमित्तमिह नैकहेतोस्तदेवेदमुपपन्नं विधानम् ॥ 002c
यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु । 003a
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र ॥ 003c
यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः । 004a
गृह्णन्त्विमे विधितत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा ॥ 004c
व्यास उवाच । 005
नायं विधिर्मानुषाणां विवाहे देवा ह्येते द्रौपदी चापि लक्ष्मीः । 005a
प्राक्कर्मणः सुकृतात्पाण्डवानां पञ्चानां भार्या देवदेवप्रसादात् ॥ 005c
तेषामेवायं विहितः स्याद्विवाहो यथा ह्येष द्रौपदीपाण्डवानाम् । 006a
अन्येषां नृणां योषितां च न धर्मः स्यान्मानवोक्तो नरेन्द्र ॥ 006c
वैशम्पायन उवाच । 007
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ । 007a
कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः । 007c
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत् ॥' 008a
ततोऽब्रवीद्भगवान्धर्मराजमद्यैव पुण्येऽहनि पाण्डवेय । 008c
पुण्ये पुष्ये योगमुपैति चन्द्रमाःपाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं ॥ 009a
'एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत ॥ 009c
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः । 010a
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः ॥ 010c
वैशम्पायन उवाच । 011
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थमुक्तं बहु तत्तदग्र्यम् । 011a
'समर्थयामास महानुभावो हृष्टः सपुत्रः सहबन्धुवर्गः । 011c
'समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥ 011e
ततस्तु सर्वे सुहृदो नृपस्यसमाजग्मुः सहिता मन्त्रिणश्च । 012a
द्रष्टुं विवाहं परमप्रतीताद्विजाश्च पौराश्च यथाप्रधानाः ॥ 012c
ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम् । 013a
बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम् ॥ 013c
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः । 014a
महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः ॥ 014c
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो । 015a
क्रमेण सर्वे विविशुस्ततः सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥ 015c
ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम् । 016a
युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया ॥ 016c
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपरागः । 017a
'विप्रांश्च सन्तर्प्य युधिष्ठिरो धनैर्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥ 017c
तदा स राजा द्रुपदस्य पुत्रिकापाणिं प्रजग्राह हुताशनाग्रतः । 018a
धौम्येन मन्त्रैर्विधिवद्धुतेऽग्नौ सहाग्निकल्पैर्ऋषिभिः समेत्य ॥ 018c
ततोऽन्तरिक्षात्कुसुमानि पेतुर्ववौ च वायुः सुमनोज्ञगन्धः । 019a
ततोऽभ्यनुज्ञाप्य समाजशोभितं युधिष्ठिरं राजपुरोहितस्तदा ॥ 019c
विप्रांश्च सर्वान्सुहृदश्च राज्ञः समेत्य राजानमदीनसत्वम् । 020a
जगाद भूयोऽपि महानुभावो वचोऽर्थयुक्तं मनुजेश्वरं तम् ॥ 020c
गृह्णन्त्वथान्ये नरदेवकन्यापाणिं यथावन्नरदेवपुत्राः । 021a
तमभ्यनन्दद्द्रुपदस्तथा द्विजं तथा कुरुष्वेति तमादिदेश ॥ 021c
पुरोहितस्यानुमतेन राज्ञस्ते राजपुत्रा मुदिता बभूवुः । 022a
क्रमेण चान्ये च नराधिपात्मजा वरस्त्रियास्ते जगृहुः करं तदा ॥' 022c
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ॥ 023ac
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम् । 023a
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥ 023c
'पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे । 024a
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥' 024c
कृते विवाहे द्रुपदो धनं ददौमहारथेभ्यो बहुरूपमुत्तमम् । 025a
शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम् ॥ 025c
शतं गजानामपि पद्मिनां तथाशतं गिरिणामिव हेमशृङ्गिणाम् । 026a
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥ 026c
पृथक्पृथग्दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम् । 027a
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः ॥ 027c
कृते विवाहे च ततस्तु पाण्डवाःप्रभूतरत्नामुपलभ्य तां श्रियम् । 028a
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥ ॥ 028c
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
1-215-26 चतुर्युजामश्वचतुष्टययुजाम् ॥ पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥