अध्यायः 214

पञ्चेन्द्रोपाख्यानप्रारम्भः ॥ 1 ॥ नैमिशारण्ये देवैरारब्धे सत्रे यमस्य शामित्रकर्मणि व्यापृतत्वात् लोके प्रजाबाहुल्यं दृष्ट्वा तत्परिजिहीर्षया देवैर्ब्रह्मसमीपगमनम् ॥ 2 ॥ ब्रह्माज्ञया पुनर्नैमिशारण्यं गतस्य गङ्गायां पुण्डरीकं दृष्ट्वा तज्जिहीर्षया गतस्य इन्द्रस्य तत्र रुदन्त्याः स्त्रियाः दर्शनम् ॥ 3 ॥ तामनुगच्छतेन्द्रेण पर्वतविवरे पूर्वेषां चतुर्णां इन्द्राणां दर्शनम् ॥ 4 ॥ बलरामकेशवद्रौपद्यादीनामुत्पत्तिकथा ॥ 5 ॥ व्यासदत्तदिव्यदृष्टेर्द्रुपदस्य पाण्डवद्रौपदीपूर्वरूपदर्शनं ॥ 6 ॥ द्रौपद्या अव्यवहितपूर्वजन्मवृत्तान्तकथनम् ॥ 7 ॥

व्यास उवाच । 001

पुरा वै नैमिशारण्ये देवाः सत्रमुपासते । 001a
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥ 001c
ततो यमो दीक्षितस्तत्र राजन्नामारयत्कञ्चिदपि प्रजानाम् । 002a
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः ॥ 002c
सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च । 003a
प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये ॥ 003c
ततोऽब्रुवल्ँलोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या । 004a
तस्माद्भयादुद्विजन्तः सुखेप्सवःप्रयाम सर्वे शरणं भवन्तम् ॥ 004c
पितामह उवाच । 005
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः । 005a
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति ॥ 005c
देवा ऊचुः । 006
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन । 006a
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥ 006c
श्रीभगवानुवाच । 007
वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः । 007a
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥ 007c
वैवस्वतस्यैव तनुर्विभक्तावीर्येण युष्माकमुत प्रवृद्धा । 008a
सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु ॥ 008c
व्यास उवाच । 009
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते । 009a
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥ 009c
दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम । 010a
सोऽपश्यद्योषामथ पावकप्रभांयत्र देवी गङ्गा सततं प्रसूता ॥ 010c
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् । 011a
तस्याश्रुबिन्दुः पतितो जले यस्तत्पद्ममासीदथ तत्र काञ्चनम् ॥ 011c
तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै । 012a
का त्वं भद्रे रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥ 012c
स्त्र्युवाच । 013
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या । 013a
आगच्छ राजन्पुरतो गमिष्येद्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥ 013c
व्यास उवाच । 014
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् । 014a
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥ 014c
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम् । 015a
ईशोऽहस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥ 015c
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शैरुदैक्षत । 016a
संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे ॥ 016c
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच । 017a
आनीयतामेष यतोऽहमारान्नैनं दर्पः पुनरप्याविशेत ॥ 017c
ततः शक्रः स्पृष्टमात्रस्तया तुस्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् । 018a
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथञ्चित् ॥ 018c
निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् । 019a
छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः ॥ 019c
स तद्विवृत्य विवरं महागिरेस्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । 020a
स तानभिप्रेक्ष्य बभूव दुःखितःकच्चिन्नाहं भविता वै यथेमे ॥ 020c
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच । 021a
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥ 021c
उक्तस्त्वेवं विभुना देवराजःप्रावेपताऽऽर्तो भृशमेवाभिषङ्गात् । 022a
स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि ॥ 022c
स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः । 023a
उवाच देवं बहुरूपमुग्रमद्याशेषस्य भुवनस्य त्वं भवाद्यः ॥ 023c
तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति । 024a
एतेऽप्येवं भवितारः पुरस्तात्तस्मादेतां दरीमाविश्य शेष्य ॥ 024c
एषा भार्या भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् । 025a
तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा ॥ 025c
'अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा शूरान्सर्वानाहवे संविजित्य ।' 026a
आगन्तारः पुनरेवेन्द्रवलोकं स्वकर्मणा पूर्वचितं महार्हम् । 026c
सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम् ॥ 026e
पूर्वेन्द्रा ऊचुः । 027
गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः । 027a
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥ 027c
व्यास उवाच । 028
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह । 028a
वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥ 028c
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् । 029a
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः ॥ 029c
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् । 030a
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥ 030c
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् । 031a
अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम् ॥ 031c
स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्यमाम् । 032a
'नरं तु देवं विबुधप्रधानमिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा । 032c
'स चापि केशौ हरिरुद्बबर्हशुक्लमेकमपरं चापि कृष्णम् ॥ 032e
तौ चापि केशौ विशतां यदूनाङ्कुले स्त्रियौ देवकीं रोहिणीं च । 033a
तयोरेको बलदेवो बभूव योऽसौ श्वेतस्य देवस्य केशः । 033c
कृष्णो द्वितीयः केशवः सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ 033e
ये ते पूर्वं शक्ररूपा निबद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य । 034a
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची ॥ 034c
एवमेते पाण्डवाः सम्बभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः । 035a
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा ॥ 035c
कथं हि स्त्री कर्मणा ते महीतलात्समुत्तिष्ठेदन्यतो दैवयोगात् । 036a
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति ॥ 036c
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च । 037a
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥ 037c
वैशम्पायन उवाच । 038
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः । 038a
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान्राजाऽपश्यत्पूर्वदेहैर्यथावत् ॥ 038c
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् । 039a
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श ॥ 039c
दिव्यैर्वस्त्रैररजोभिः सुगन्धैर्माल्यैश्चाग्र्यैः शोभमानानतीव । 040a
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा-नादित्यान्वा सर्वगुणोपपन्नान् ॥ 040c
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपाञ्शक्रात्मजं चेन्द्ररूपं निशम्य । 041a
प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम् ॥ 041c
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम् । 042a
योग्यां तेषां रूपतेजोयशोभिःपत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः ॥ 042c
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य । 043a
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् ॥ 043c
'व्यास उवाच । 044
इदं चापि पुरावृत्तं तन्निबोध च भूमिप । 044a
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ॥ 044c
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः । 045a
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिपाः ॥ 045c
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् । 046a
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः ॥ 046c
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः । 047a
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियङ्कराः ॥ 047c
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे । 048a
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान् ॥ 048c
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता । 049a
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥ 049c
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः । 050a
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः ॥ 050c
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा । 051a
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता ॥ 051c
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत । 052a
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ॥ 052c
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि । 053a
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥ 053c
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः । 054a
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम ॥ 054c
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता । 055a
तथैव द्रुपदैषा ते सुता वै देवरूपिणी । 055c
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता' ॥ 055e
व्यास उवाच । 056
आसीत्तपोवन्ने काचिदृषेः कन्या महात्मनः । 056a
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥ 056c
तोषयामास तपसा सा किलोग्रेण शङ्करम् । 057a
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥ 057c
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम् । 058a
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥ 058c
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः । 059a
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥ 059c
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत । 060a
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ॥ 060c
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः । 061a
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ॥ 061c
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते । 062a
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति ॥ 062c
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी । 063a
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥ 063c
'सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि । 064a
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती ॥ 064c
एतद्देवरहस्यं ते श्रावितं राजसत्तम । 065a
नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः ॥' 065c
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे । 066a
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥ 066c
सैषा देवी रुचिरा देवजुष्टापञ्चानामेका स्वकृतेनेह कर्मणा । 067a
सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ ॥ 067c

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥

1-214-1 शमिता यज्ञे पशुवधकर्ता तस्य भावः शामित्रम् ॥ 1-214-3 यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः ॥ 1-214-11 तस्याः अश्रुबिन्दुः । सन्धिरार्षः ॥ 1-214-21 ततः शीघ्रमप्रवेशाद्धेतोः ॥ 1-214-23 हे भव अद्य त्वमशेषस्य भुवनस्य आद्यः पतिरसि । अद्येत्यनेन मां जित्वैव नत्वन्यथेति सूचितम् ॥ 1-214-24 शेषं प्रसादम् ॥ 1-214-27 दुराधरो दुष्प्रापः ॥ 1-214-28 वीर्येण शुक्रद्वारा पुरुषमंशभूतं दद्याम् ॥ 1-214-29 तेजस्वी इन्द्रांशः ॥ 1-214-31 तैर्विश्वभुगादिभिः । स देवो महादेवः ॥ 1-214-32 व्यदधाद्विहितवान् आज्ञप्तवानित्यर्थः । उद्बबर्ह उद्धृतवान् ॥ 1-214-38 तस्य राज्ञः । तस्मै राज्ञे ॥ चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥