अध्यायः 213

कथं नालायनी मत्पुत्री जातेति व्यासं प्रति द्रुपदस्य प्रश्नः ॥ 1 ॥ पुनर्नालायनीकथाकथनं ॥ 2 ॥ कामोपभोगविरक्तेन मौद्गल्येन कामातृप्तायाः नालादन्याः पञ्चपतित्वशापः ॥ 3 ॥ नालायन्या रुद्रमुद्दिश्य तपःकरणम् ॥ 4 ॥ नालयन्या पतिं देहीति पञ्चकृत्वः प्रार्थितेन रुद्रेण अन्यजन्मनि पञ्च ते पतयो भविष्यन्तीति वरदानम् ॥ 5 ॥ पुनः रुद्रात् नित्यकौमारप्राप्तिः ॥ 6 ॥ त्वयि गङ्गाजलस्थायां तत्रागमिष्यन्तमिन्द्रमानयेति नालायनीम्प्रति रुद्रस्याज्ञापनम् ॥ 7 ॥

द्रुपद उवाच । 001

ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा । 001a
जाता ममाध्वरे कृष्णा सर्ववेदविदां वर ॥ 001c
व्यास उवाच । 002
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः । 002a
यदर्थं चैव सम्भूता तव गेहे यशस्विनी ॥ 002c
हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम् । 003a
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा ॥ 003c
मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा । 004a
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया ॥ 004c
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा । 005a
ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत ॥ 005c
अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत् । 006a
उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि । 006c
मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा ॥ 006e
नालायन्युवाच । 007
प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि । 007a
अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात् ॥ 007c
मौद्गल्य उवाच । 008
यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे । 008a
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम ॥ 008c
भविष्यसि नृलोके त्वं राजपुत्री यशस्वि । 009a
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥ 009c
भवितारस्तत्र तव पतयः पञ्च विप्लुताः । 010a
तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि ॥ 010c
वैशम्पायन उवाच । 011
सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी । 011a
भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा ॥ 011c
निराशीर्मारुताहारा निराहारा तथैव च । 012a
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् ॥ 012c
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम् । 013a
वरं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः ॥ 013c
भविष्यति परं जन्म भविष्यति वराङ्गना । 014a
भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः ॥ 014c
महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः । 015a
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि ॥ 015c
स्त्र्युवाच । 016
एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम् । 016a
एको भवति नैकस्या बहवस्तद्ब्रवीहि मे ॥ 016c
महेश्वर उवाच । 017
पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः । 017a
पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः ॥ 017c
स्त्र्युवाच । 018
धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः । 018a
बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः ॥ 018c
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा । 019a
सहधर्मचरी भर्तुरेका एकस्य चोच्यते ॥ 019c
एको हि भर्ता नारीणां कौमार इति लौकिकः । 020a
आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः ॥ 020c
गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते । 021a
चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत् ॥ 021c
एवं गते धर्मपथे न वृणे बहुपुंस्कताम् । 022a
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात् ॥ 022c
महेश्वर उवाच । 023
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे । 023a
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति ॥ 023c
स्त्र्युवाच । 024
यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः । 024a
कौमारं च भवेत्सर्वैः सङ्गमे सङ्गमे च मे ॥ 024c
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा । 025a
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ॥ 025c
रुद्र उवाच । 026
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् । 026a
भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम् ॥ 026c
अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता । 027a
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि ॥ 027c
गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे । 028a
तमानय ममाभ्याशं सुरराजं शुचिस्मिते ॥ 028c
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् । 029a
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् ॥ ॥ 029c

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥

1-213-23 अनावृताः निरोधरहिताः ॥ त्रयोदशाधिकद्विशततमोऽध्यायः ॥ 213 ॥