अध्यायः 212
इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम् ॥ 1 ॥ तुष्टेन मौद्गल्येन न नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम् ॥ 2 ॥ तयोः स्वर्गादिलोकेषु नानारूपेण रमणम् ॥ 3 ॥ सैव नालायनी तव दुहिता जातेति द्रुपदं प्रति व्यासस्योक्तिः ॥ 4 ॥
व्यास उवाच । 001
मा भूद्राजंस्तव तापो मनस्थःपञ्चानां भार्या दुहिता ममेति । 001a
मातुरेषा प्रार्थिता स्यात्तदानीं पञ्चानां भार्या दुहिता ममेति ॥ 001c
याजोपयाजौ धर्मरतौ तपोभ्यां तौ चक्रतुः पञ्चपतित्वमस्याः । 002a
तत्पञ्चभिः पाण्डुसुतैरवाप्ताभार्या कृष्णा मोदतां वै कुलं ते ॥ 002c
लोके नान्यो विद्यते त्वद्विशिष्टः सर्वारीणामप्रधृष्योऽसि राजन् । 003a
भूयस्त्विदं शृणु मे त्वं विशोकोयथाऽऽगतं पञ्चपत्नीत्वमस्याः ॥ 003c
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् । 004a
आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥ 004c
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् । 005a
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम् ॥ 005c
स्थविरं विकृताकारं शीर्यमाणनखत्वचम् । 006a
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम् ॥ 006c
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत । 007a
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥ 007c
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा । 008a
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा ॥ 008c
मौद्गल्य उवाच । 009
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः । 009a
न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥ 009c
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् । 010a
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥ 010c
व्यास उवाच । 011
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् । 011a
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥ 011c
नालायन्युवाच । 012
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः । 012a
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः ॥ 012c
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः । 013a
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः ॥ 013c
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् । 014a
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ॥ 014c
स चचार यथाकामं कामरूपवपुः पुनः । 015a
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह ॥ 015c
चचार सोऽमृताहारः सुरलोके चचार ह । 016a
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ॥ 016c
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया । 017a
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ॥ 017c
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत् । 018a
आकाशगङ्गामाप्लुत्य तया सह तपोधनः ॥ 018c
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः । 019a
गिरिरूपधरो योगी स महर्षिस्तदा पुनः ॥ 019c
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी । 020a
यदा पुष्पाकुलः सालः सञ्जज्ञे भगवानृषिः ॥ 020c
लतात्वमनुसम्पेदे तमेवाभ्यनुवेष्टती । 021a
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः ॥ 021c
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह । 022a
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥ 022c
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः । 023a
विरराम च सा चैव दैवयोगेन भामिनी ॥ 023c
स च तां तपसा देवीं रमयामास योगतः । 024a
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी ॥ 024c
अरुन्धतीव सीतेव बभूवातिपतिव्रता । 025a
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ ॥ 025c
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा । 026a
सा वै नालायनी जज्ञे दैवयोगेन केनचित् ॥ 026c
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा । 027a
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन ॥ 027c
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥ ॥ 028a
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥
1-212-1 मातुः मात्रा । स्यात् अभूत् ॥ 1-212-10 कथं केन प्रकारेण ॥ 1-212-22 स्कन्धेन मानुषादिदेहेन ॥ द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥